You are here: Home » stories » 119

विद्यानुरागस्य फलम्

विद्योपार्जननिबद्धगाढस्पृहमप्यमुम् अजैडकपालकं दारिद्र्यदोषः पाठशालागमनं रुरोध, प्रत्यहं चानारतम् अजाविपालनकर्मणि नियुयोज ।

शाद्वले वृष्णीन् विहारयितुमुत्सृज्य स्वयं तु गवाक्षोपान्तमधितिष्ठन् देशिकेन प्रदिष्टान् सर्वान् पाठाननन्यश्रवणतया पपौ ।

अथ कदाचिद्विद्यायतनपरिदर्शकः कश्चिदागन्तुकश्छात्रान् विचिन्वानः प्रश्नान् पञ्चषान् पप्रच्छ ।

एकस्य चापि प्रश्नस्य प्रत्युत्तरं दातुमक्षमास्त्वेमे सर्वेऽपि छात्राः सव्रीडमवनतमुखा निषेदुरुपाध्यायस्याननं च वैलक्ष्याद्विवर्णतामुपेयाय ।

एतावता गवाक्षप्रदेशात् कोऽपि ध्वनिः शुश्रुवे— “मारिष, अमीषां प्रश्नानां समाधानानि प्रादातुमहमीशे” इति ।

सद्यो हि सर्वेषां दृष्टयो वातायनाभिमुखं निपेतुस्तममुमर्भकमभ्यन्तरमानीय परिवीक्षको यावदमुना दत्तानि सर्वोत्तराण्युपशुश्राव तावदस्य वैदुष्यं निकषितुं भूयोऽपि कांश्चन कूटप्रश्नान् व्यसृजत् ।

तेषां चापि निखिलशङ्काच्छिदि समुचितोत्तरं स बालो जगाद ।

“अहो ते धीप्रकर्षः ! न खल्वयं वृथैवाजाविपालनक्लेशेन भस्मसाद्भवितुं युज्यते” इत्यभिधाय स हृष्टः परिवीक्षको बालकेनामुनैव साकं तस्य निलयं जगाम ।

जनकौ च समीक्ष्य सानुनयं बभाषे— “असामान्येयममुष्य प्रज्ञा, अध्येतव्यमेवामुना । तत्र यावानर्थव्ययः सम्पत्स्यते तं सर्वमहमेव निर्वक्ष्यामि, तस्मादमूमायतनाय प्रहिणुत” इत्याययाच ।

अथ प्रमुदितजननीजनकौ अनुमतिमाशु ददतुः, परेयुस्त्वेष शिशुर्निरतिशयहर्षनिर्भरो गुरुकुलं प्रपेदे ।

स एवायं बालको यः पश्चाद्राधाविनोदपाल इति धरातले प्रथामुपेयाय ।

यो हि वयसः परिणामे धर्मविद्यापारदृश्वा सन्नाङ्गलेयप्रशासने भारतीयकरव्यवस्थानिर्माणे धुरमुद्ववाह, द्वितीयविश्वसमरकाले चान्ताराष्ट्रियप्राड्विवाकत्वेन व्यापृतो जपानीनैः शिरसा धार्यं महान्तमादरमवाप ।

Search
stories/119.txt · Last modified: 2026/03/21 13:11