You are here: Home » stories » 121
120 
 122

आत्मप्रत्ययस्य महिमा

“मयाध्यापिताः श्लोकाः कच्चिद्वो निःशेषं कण्ठीकृताः?” इति कस्मिंश्चिद्विद्यालयेऽन्तेवासिनोऽप्राक्षीदुपाध्यायः।

“बाढम्” इत्येव प्रतिजज्ञिरे ते सर्वेऽपि विनेयाः।

“एकैकशस्तर्ह्येत मदन्तिकम्, मयोच्यमानं च पद्यं श्रावयितुमर्हथ” इति समादिदेश स देशिकः।

कम्पमानकलेवरः कश्चिच्छिष्यः प्रथमतः पुरो गत्वोदाहर्तुं प्रावर्तत पद्यम्। तावत्येवार्धश्राविते तस्मिन्, “अलमत्युदाहृतेन, विरमास्मात्” इति तमन्वशाद्गुरुः। - खण्डितवाक् स वटुः सद्यो विच्छायवदनः स्वमासनं प्रतिनिवृत्य निषसाद।

द्वितीयेनाप्यागतेनामुना तथैवान्वभावि। असावपि ह्रियावनतमुखः प्रत्यावृत्य स्वोपवेशने न्यविशत।

एवमेव दशभ्योऽप्यधिकैश्छात्रैः पद्यान्युदाहर्तुमुद्यतम्। किन्तु ते सर्वेऽप्याचार्यस्य 'उपरम' इति निर्देशमाकर्ण्य सद्य एव तूष्णीका भूत्वा स्वोपवेशनान्येव पराववृतिरे।

अथ धीरजनामा कश्चिद्बालकः पद्यं शुश्रावयिषुः पुरस्तादवतस्थे। यावदनेन श्लोकस्यार्धमुदाहृतं तावदेव 'विरम' इति तमाज्ञापयामास देशिकः। तथाप्यकम्पमानोऽसावर्भकः कृत्स्नमेव श्लोकमुदाहृत्यैव स्वस्थानं पराजगाम।

“दिष्ट्या भोः! सुष्ठु कृतम्! अनयैव रीत्या तवाभियोगोऽनुवर्तताम्” इति तं प्रशशंस गुरुः।

एतदाकर्ण्यापरः कश्चिच्छिष्य उत्थाय जगाद— “आर्य! अहमप्येवमेवाशेषं पद्यमुदाहर्तुमशक्ष्यम्, यदि त्वयाऽवसरो नापाहारिष्यत। ‘उपरम’ इत्युक्त्वा त्वमेव मां परावर्तयामासिथ” इति।

तत आचार्यः प्रत्युवाच— “प्रायेणापरेऽपि यूयं साकल्येन श्लोकान् श्रावयितुं प्रभवेत। तथापि मया निषिद्धाः सन्तः सर्वेऽपि यूयं पाठमुपसंहृत्य पराववृतिध्वे। अस्यायं निष्कर्षो यद्वोऽन्तःकरणेषु नास्त्यात्मप्रत्ययः पर्याप्तः। यस्य ह्यात्मप्रत्ययो दृढभूमिः स एव धीरप्रकृतितया व्यवहरति। धीरजेनामुना तत्त्वतस्तदेव चरितार्थीकृतम्। पद्यानि सम्यग्जानन्तोऽपि यूयमात्मप्रत्ययहीनाः। युष्माकमात्मविश्वासं जिज्ञासुरेवाहं युष्मान् पद्यपठनायाचूचुदम्। अस्यां खलु परीक्षायां धीरज एक एव पारदृश्वा सञ्जातः” इति।

120 
 122
Search
stories/121.txt · Last modified: 2026/03/22 13:10