You are here: Home » stories » 124
123 
 125

कर्मयोगतत्त्वविमर्शः

गिरिशिखरगतालयदिदृक्षया सच्छिष्यपरिवृतः कदाचित् प्रतस्थे रमणमहर्षिः। अथ तमेनमप्राक्षीत् कश्चिदन्तेवासी जिज्ञासमानः - “भगवन्, किं नामान्तरममुष्य कर्मणस्तद्योगस्य च?” इति।

वचनमन्तरेणैव स मुनिस्तूष्णीमवातिष्ठत। अस्मिन्नन्तरे तमेवोद्देशमाजगाम काचिज्जरती काष्ठभारमुद्वहन्ती। तदीयमुत्तमाङ्गं सुमहान् दारुसञ्चयोऽमृद्नात्। श्रमबिन्दुस्विन्नललाटा सा कृच्छ्रेण शैलमध्यारुरोह। इमं वृत्तान्तं निशाम्य तच्छिरोऽधिरूढात् काष्ठनिचयादेकमतिदृढं दण्डं समुद्धृत्य तस्या जरत्याः करसम्पुटे विन्यस्य “मातरमुं दण्डमवलम्ब्याग्रे प्रतिष्ठस्व, तेन हि ते शैलाधिरोहणश्रमो लघिमानमश्नुवीत” इति शशास।

तमादेशं शिरसादाय सा वृद्धा यष्टिमेनामवलम्ब्य पुरस्तादगात्। तदीयो मन्थरगतिविलास एव नूनं प्रचख्यौ - अद्य तस्याः सञ्चरणक्लेशः प्रकामं लघिमानमवापेति।

तस्यामपक्रान्तायां महर्षिरमुं विनेयमनुयुयोज - “कच्चिदज्ञासीस्त्वममुष्य कर्मणस्तद्योगस्य चान्तरम्?” इति।

शिरः प्रकम्पयन् “न हि किञ्चिदप्यहमज्ञासिषम्” इति स छात्रः प्रत्युवाच।

“निबोध! प्रागियं जरती सुमहान्तमिन्धनभारमवाक्षीत् खलु, तदेव तावत् कर्म। अथ सा दण्डमवलम्ब्य पुरतोऽगात् ननु? स एव कर्मयोगः। यत्राचरन्नेव भारेण तातप्यमानः कर्ता खेदमापद्येत, तदेव कर्म। यत्र पुनरुद्वहन्नपि गुरुतरं भारं लघिमानमाविन्देत, स एव कर्मयोगः।”

साश्चर्यं पश्यतो विनेयानवलोक्य स भूयोऽप्यगादीत् - “अस्मिञ्जीवने भूरीणि श्रमत्यागसेवादिरूपाणि कर्माण्याचरेम वयम्। न च तानि परिहर्तुं पारयामः। अत एव वयमन्तर्विद्यमानेन खेदेनानिच्छया मलिनेन चान्तःकरणेन तेषामनुष्ठानं सम्पादयेम। तेन न काचिदपि निर्वृतिर्न वा प्रमोदः समुपजायेत, अपि तु सुमहान् क्लेश एव नः सन्तपेत्। 'परमेश्वर एव मामधिष्ठायैतानि सर्वाणि कर्माणि निर्वर्तयति, तदीयैवेयं कैङ्कर्यवृत्तिः' इत्यनन्यया भावनया सप्रश्रयं यदि वयं तान्याचरेम, तर्हि तान्येव कर्माण्यस्माकमानन्दसन्दोहं परमां च तृप्तिं वितरेयुः। यद्यत् कर्म वयं कुर्याम, तत्तद्यदि प्रेम्णा विदध्याम, तर्ह्यसावेव कर्मयोग इति गीयते। यतो हि 'कर्मसु कौशलमेव योगः' इति निगदन्ति मनीषिणः।” इति।

123 
 125
Search
stories/124.txt · Last modified: 2026/03/26 13:21