You are here: Home » stories » 126
125 
 127

अमूर्तरक्षिणो राज्यस्य

प्रशशास ह कञ्चन लघीयांसं जनपदं सुशर्मा नाम क्षितीशः। पौरक्षेमायैवानवरतमजागरीत्सः। अभ्याजगाम कदाचिदिमं विषयमिन्दुधराख्यो महीपतिः। जग्मतुश्च तौ मृगयाविहाराय। तत्रान्तरे पप्रच्छ सुशर्मा— “मदीयाद्राष्ट्राद्गरीयः खलु ते राज्यम्। तथाप्यधिकतरा वर्तते त्वदीये मण्डले शान्तिसौख्यसमृद्धिः। कथमदः सिद्ध्येत्? अस्मद्विषयेऽपि तादृक्क्षेममभिवर्धयितुं किमाचरेयम्” इति।

“चत्वारो जाग्रति मदीये राज्ये रक्षिणः। तन्महिम्नैवास्मिन्देशे स्थिरीभवन्ति क्षेमशान्त्यादयः” इत्युवाचेन्दुधरः।

“किं चत्वार एव रक्षिणः कृत्स्नां क्षेमव्यवस्थां निर्वहेयुः? अहो चित्रमदः! तान् खल्वहं दिदृक्षे। तदुपदेशमवाप्यास्मिन्नपि विषये समुचितां स्थितिं कल्पयेयम्। तद्दिश प्रसादममीषां साक्षात्करणाय” इत्ययाचिष्ट सुशर्मा।

ततो जहास जगाद चेन्दुधरः— “न खलु सुशकं तावदमून् द्रष्टुम्” इति।

“कथमिव?” इति सविस्मयं पप्रच्छापरः।

“अमूर्तत्वादमीषाम्” इति।

“न खल्वहमन्वबोधं ते वचोगतं तात्पर्यार्थम्। कथममूर्ता रक्षितुमीशीरन्?”

“सत्यं प्रेम न्यायस्त्यागश्चेतीमे खल्वमी। त एवास्मन्मण्डलस्य गोप्तारः। अनृतद्वेषाधर्मस्वार्थेभ्यो माममुं विषयं च त्रायन्ते। यथैते चत्वार ऊर्जस्वला भवेयुस्तथैवाहं यते। बलमासाद्य त एवामुं जनपदं सम्यक् पालयन्ति। अहं त्वमीषामेव चतुर्णां संवर्धनाय निखिलावधानं दधामि…”

मुहूर्तं विमृश्यावादीत्सुशर्मा— “ऋतमेव जगदिथ। अस्मद्विषयेऽप्यमीषां पोषणाय यथोचितं विधास्ये। ततश्चाचिरादेवासावपि जनपदः क्षेमसौख्याभ्यामन्वीयेत” इति।

125 
 127
Search
stories/126.txt · Last modified: 2026/03/28 13:55