You are here: Home » stories » 127

निश्चलविद्यादानव्रतम्

समधिगम्य च निखिलविद्यामुपाजगाम निजपल्लीं कश्चिद्वटुः। अन्वशाच्चामुं प्रागेव प्रस्थानाद्देशिको 'मा स्म प्रमदः स्वाध्यायप्रवचनाभ्याम्, अहरहरध्येयमध्याप्यं च' इति। आरेभे चासावध्यापयितुं यथामति विद्यार्थिनोऽविच्छिन्दन् निजस्वाध्यायम्। ववृधे च दिने दिने तदीयपाठशालायां विनेयसन्दोहो निरतिशयाध्यापनकौशलादमुष्य। ईर्ष्याञ्चक्रुश्चामुष्मै पल्लीवर्तिनोऽन्येऽध्यापकाः, यदीयमठाश्छात्रशून्या बभूवुरमुष्य वैदुष्यप्रकर्षादाकृष्टमनसां छात्राणामपक्रमणेन।

अजीजनंश्च ते दुराशया जनपुरस्तान्मृषावादमुद्भाव्यामुं प्रति पल्लीवासिनां विद्वेषम्, येनैकोऽपि माणवकस्तदन्तिकं नागात्। प्रादुरभूच्च कदाचित् पाठवेला, तथापि ददृशे न कोऽपि छात्रस्तत्र। प्रागेवासावज्ञासीद्यदितराध्यापका असूयन्तीत्यतो बुबुधेऽमीषामेवेदं दुर्नयविलसितमिति। नागमंश्चान्तेवासिनस्तथापि जहौ न धैर्यमसौ, प्रत्युत दारुशङ्कून् कांश्चन पुरतो निधाय तान् प्रत्येव प्रवचनमुपचक्रमे।

व्यतीयुश्चैवं कानिचिदहान्यज्ञासिषुश्चामुष्य निरतिशयां विद्यादाननिष्ठां दुरात्मनां कुतन्त्रञ्च पल्लीवासिनः। अयाचन्त च तमुपगम्य क्षमामूचुश्चात ऊर्ध्वमस्मदीया दारकास्त्वदन्तिकमेवागमिष्यन्ति त्वयैवामी शिक्षणीया इति। अङ्गीचकार च तद्वचः सप्रहर्षमसावखिद्यमानो यत्प्रावर्तिष्ट तत्र। पप्रथे चाचेतनानपि शङ्कून् पाठयित्वा स्वव्रतानुपालनाच्छङ्कुक इत्यमुष्याख्या, यदीयं नाम साहित्यशास्त्रनभोमण्डलेऽद्यापि देदीप्यते।

Search
stories/127.txt · Last modified: 2026/03/28 13:56