You are here: Home » stories » 128
← 127 
 129 →

समस्यामण्डूकन्यायः

आससाद ग्रामममुं कोऽपि लोकोत्तरचरितो यतिः। अन्वहं प्रवृत्तां तदीयां धर्मदेशनामुपश्रोतुं समाजग्मुर्बहवः श्रोतारः।

कदाचित्कथावसाने कश्चिज्जिज्ञासुरमुमनुयुयोज—'भगवन्नपरिसङ्ख्येयसमस्यासङ्कुलेऽस्मिञ्जीवने तन्मूलकक्लेशैर्विहतान्तरङ्गो न लभते शर्म जनः। सर्वव्यथाप्रमार्जनेन प्रशान्तचित्ततया जीवितुमाशासे, तत्किमनुष्ठेयमिति निर्दिश इति ।

तदाकर्ण्येषदुत्स्मयमानो महात्मा व्यजह्रे—'आदौ तावदाहर कांश्चिज्जीवतो भेकांस्ततस्ते व्यथापनोदमुपदेक्ष्यामीति।

महात्मनः खल्वादेशं को नाम प्रत्याख्यातुमीष्टे? ततोऽसौ प्रष्टा परैः साकं कासारमवगाह्य भूयसायासेन कांश्चिद्दर्दुरानाहार्षीत्।

यतिरपि काञ्चित्तुलामानाययामास। ततस्तं प्रष्टारमभिलक्ष्यामीषां प्लवङ्गमानां गुरुत्वमुन्माय ब्रूहीत्यादिश्य ततो निरगात्।

जिज्ञासुरसौ परसाहाय्येनामून्दर्दुरांस्तोलयितुं प्राक्रमत। अचिरादेवासौ पर्यचिनोत्कियदायासकरममीषामुन्मानमिति। यावदेकस्तुलायां न्यधीयत तावदन्य उदप्लवत। अतः सर्वानपि भेकानेकस्यां तुलायां निवेशयितुं नाशकत्। तथाप्यसौ न विरराम स्वप्रयासात्।

कियता कालेन तत्र प्रत्यावृत्य महात्मा जगाद—'अलमनेन वृथायासेन। यथामी मण्डूका एकत्रावस्थापयितुं न शक्यन्ते, तथैव सर्वासामपि समस्यानामुन्मूलनमसाध्यमेव। एकस्या व्यथायाः शमनोपायो यावदन्विष्यते तावदपरैवाविर्भवति। कदाचित्तु युगपदेवापतन्ति बह्व्य आपदः। तस्मादापदां मध्य एव जीवितव्यमस्माभिरिति।

अनुयुयोज स जिज्ञासुरथ कोऽत्र पन्था इति।

उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रम इत्येते षड्गुणा एवाश्रयणीयाः। यद्यमी गुणा अस्मासु वर्तेरंस्तर्हि सर्वानपि क्लेशान्निहत्य पुरतो गन्तुं क्षमेमहीत्यन्वशात्स यतिप्रवरः।

← 127 
 129 →
Search
stories/128.txt · Last modified: 2026/03/29 12:11