अकारणदण्डनरहस्योद्घाटनम्
अध्यापयामास निजमाश्रमपदमधितिष्ठन् कश्चिद्देशिकः समन्तादागतान् क्षत्रियकुमारानितरांश्च विनेयान्। तेषु च मगधराजसूनुरप्यध्यैष्ट।
अथ कदाचिदन्तेवासिभिः साकं विचरतो गुरोः करादकस्मात् परिभ्रष्टं दण्डमवनम्योत्क्षिप्य समर्पितवन्तं मगधराजसूनुम् स एवाचार्यस्तेनैव वेणुना भृशमजघान। ‘अकस्मान्मामनागसं किमर्थं ताडयति गुरुर्विनापराधम्’ इति विचिन्तयन् यावदमुष्य मुखमपश्यत्, तावदेव द्वितीयोऽपि प्रहारस्तदङ्गे पपात। तीव्रां रुजमनुभवतस्तस्याहतप्रदेशाच्छोणितमपि चुश्चोत।
व्यथमान एव स राजपुत्रः पप्रच्छ—“भगवन्, किमपराद्धं मया ? किमर्थं निष्कारणमेवमहमभिहन्ये ?” इति।
प्रशान्तगम्भीरस्वरश्चावोचद्देशिकः—“कालान्तरेण स्वयमेव ज्ञास्यसि त्वममुं सर्वमपि वृत्तान्तम्” इति।
न भूयः किञ्चिदपि पप्रच्छ स विनेयः। व्यतीतासु कतिपयशरत्सु स एव मगधसिंहासनमधितस्थौ। कदाचिदमुं दिदृक्षुस्तदास्थानं संजगाहे स एव गुरुरकस्मात्। प्रत्युत्थानपुरःसरमर्घ्यपाद्यादिभिरुपचर्य स्वासने तमुपवेश्य विनयावनतो नृपः पप्रच्छ—“भगवन्, कच्चिदनुज्ञातोऽहं किमपि प्रष्टुम् ?” इति।
“कामं पृच्छ” इति मन्दस्मितपुरःसरमुवाच गुरुः। अथापृच्छन्नरपतिः—“यदाहं भवदन्तिके विद्यामग्रहीषम्, तदा किल विनापराधं भृशं प्रहृतं मयि। तत् किमर्थमिति नाद्यापि मे विदितम्। कच्चित् तद्रहस्यमुद्घाटयेः ?” इति।
आकर्ण्य तदेतज्जहास देशिकः, प्रोवाच च—“नहि तस्मिन्नहनि त्वं ताडितः, अपि तु सम्यग् बोधितः। अकृतापराधा निरागसो जना यदि दण्ड्येरन्, तर्हि कथं ते क्लिश्येरन्निति त्वामजिज्ञपम्। इदानीं राजसिंहासनमारूढोऽसि। सम्यक् परीक्ष्यैव त्वयापराधिनो दण्डनीयाः। मा स्म कोऽपि निरपराधो दण्डभाग् भूत्” इति।
“अवागमं भगवदाशयम्। यावज्जीवं भवदुपदेशानुरूपमेव वर्तिष्ये” इति सविनयमुवाच नृपो गुरुम्।