प्रत्युत्पन्नमतिप्रकर्षः
पञ्चशताब्दीभ्यः प्राक् दारिद्र्योपहतजीवना काचिद्विगतभर्तृका स्वैकापत्येन सममुवास ।
अथ कदाचित्प्रातस्तने काले पक्तुकामा सा जननी चुल्लीमुपससर्प । तत्र च भस्मीभूतो जातवेदाः सर्वथा प्रशशाम ।
“वत्स ! प्रत्यन्तवेश्मनो ज्वलतोऽङ्गारानुपाहर” इत्येनं माता जगाद । तथेति प्रतिश्रुत्य स पार्श्वस्थितसमृद्धवेश्म जगाम । तदीयप्राङ्गणे प्रज्वलितकृशानोरन्तिके निषण्णं कञ्चित्परिचारकमुवाच - “भो भद्र ! प्रदीयन्तां कतिचन स्फुलिङ्गवन्तोऽङ्गाराः” इति ।
परिचारकस्तु अमुमवगणयन् प्राह - “किं कञ्चुकेन ह्रियेरन् तप्ताङ्गाराः ? त्वया तु स नापि धृतः ! कथमिव नेष्यसि तान् ?” इति ।
क्षणमिव विमृश्य स बालकोऽन्तिकस्थिताम्भसा करौ क्लेदयित्वा काष्ठभस्म चाञ्जलावादधत्तं भृत्यं बभाषे - “अत्रैवाञ्जलौ निक्षिप्यन्तामङ्गाराः” इति । न्यदधाच्च तदञ्जलौ परिचारकस्तप्ताङ्गारान् । आदाय च तान्स स्ववेश्माभिमुखं प्रादुद्राव ।
निजहर्म्यशिखरादिदं सर्वमालोकमानः स इभ्यः शिशोरस्य प्रत्युत्पन्नमतित्वेन नितरां प्रहृष्टान्तरात्मा तमनुजगाम तद्वेश्म यावत् ।
अभ्यागच्छन्तममुं धनिनं वीक्ष्य 'नूनं ममापत्येन किञ्चिदागो विहितं स्यात्' इति शङ्कमाना सा जननी दैन्येन बभाषे - “आर्य ! अज्ञानतस्त्वामपराध्नोद्यदि मे सूनुस्तर्हि क्षमस्व करुणया” इति ।
ततो धनी प्रत्युवाच - “आर्ये ! नापराध्नोति ते तनयः । महामेधावी खल्वसौ । वनकुसुममिव मुधा न म्लायेदस्य जीवनम् । गुरुकुलमुपेत्य विद्यामुपार्जयतु । अस्य शिक्षाप्रबन्धनं मयैव विधास्यते । अनुमन्यतामिदं त्वया” इति ।
प्रहृष्टान्तरात्मा तदनुजज्ञे जननी । गुरुकुलं प्रपेदे चासौ बालः । गच्छता च कालेन न्यायविद्यां सम्यगधीत्य तत्र परमं प्रावीण्यमवाप्य 'रघुनाथशिरोमणिः' इति नाम्ना भुवि पप्रथे ।