सत्यत्रयविवेचनम्
अध्यवात्सीत्कुत्रचिद्ग्रामे कश्चन कोटीश्वरः। अस्थापि चामुना निजप्रासादमभितः प्रमदवनङ्कारितञ्च तद्गोपुरद्वारि कश्चिद्भीषणाकारः पाषाणसारमेयः। तमेव श्वानमालोक्य भृशमुद्विजमानाः पान्थाः पथोऽपरपार्श्वं शिश्रियुर्जवेन वा प्रादुद्रुवुः।
कदाचिदमुमेव ग्राममुपेयिवान् कश्चिद्देशिकोऽन्तेवासिद्वयेन सार्धं तस्यैव धनपतेः सौधान्तिके कस्यचित्तरोरधस्तान्निषसाद। भिक्षाटनार्थं धनिकहर्म्यमुपससृपतुस्तावन्तेवासिनौ। तत्रावालोकि ताभ्यां कश्चिदुग्रः कौलेयकः। तमेवालोक्य प्रथमस्तावदन्तेवासी भृशमुद्विजमानस्तूर्णमपाक्रमीत्। द्वितीयस्तु धैर्यावष्टम्भेन पदानि पुरस्तान्निक्षिपंस्तदन्तिकमुपजगाम। तथाप्यसौ श्वा न काञ्चिदपि विक्रियामदीदरत्। तदैव सोऽज्ञासीद्यदेष सारमेयो न सप्राणोऽपि त्वश्ममयी काचन प्रतिकृतिरेवेति। स चान्यमाहूयाब्रवीत् - 'सखे ! एहि ! कृत्रिमोऽयं श्वा। नासौ दशति न वा भषति।' इति। परम्पूर्वोक्तः शिष्यस्तत्र न श्रद्दधौ। 'जीवत्ययमिति तु दर्शनादेव स्फुटीभवति। न चाहं तदुपकण्ठमुपसर्पामि।' इत्युदीर्य स ततो निरगात्। द्वितीयस्तु तस्माद्धनिकभवनाद्भिक्षामुपसङ्गृह्य न्यवर्तत।
अप्राक्षीच्च स देशिकं श्रेष्ठिभवने संवृत्तं सर्वंवृत्तान्तन्निवेद्य - 'भगवन् ! आवाभ्यामेकमेव सारमेयशिल्पमदर्शि। परन्त्वसावन्तेवासी मदीयं वचो नाभ्युपैति। यन्मया परिदृश्यते तदेव खलु परमार्थतः सत्यम् ? यच्चामुना निगद्यते तन्मृषैव ननु ?' इति।
अवादीच्च तदा मन्दस्मितपुरःसरं देशिकः - 'वत्सौ ! परमार्थतस्तूभयोरपि दर्शनन्न सत्यम्। 'ब्रह्म सत्यं जगन्मिथ्या’ इत्याम्नायवचनं श्रुतचरं खलु युवाभ्याम् ? परतत्त्वन्त्वेकमेवाद्वितीयम्। यत्सर्वदा सर्वत्र चावतिष्ठते तदेव पारमार्थिकं सत्यम्। यत्र यद्वस्तुतो नास्ति तत्र तद्रूपस्याध्यारोप एव 'प्रातिभासिकं सत्यम्' इत्यभिधीयते। अश्ममये शिल्पेऽमुना यः श्वा व्यलोकि तदेवेहोदाहरणम्। त्वन्तु विद्यमानम्पाषाणशिल्पं शुनकाकारमद्राक्षीः। एतस्य दर्शनस्य 'व्यावहारिकं सत्यम्' इत्याख्या। जना यद्यदिन्द्रियैरनुभवन्ति तत्सर्वं मृषैव। तथापि तदेव सत्यत्वेनाभिमन्यन्ते ते। येन खलु परब्रह्म तत्त्वतो बुबुधे स न श्वानं न वा शिल्पम्पश्यत्यपि तु सर्वम्परब्रह्ममयमेवावलोकते। प्रातिभासिकं व्यावहारिकञ्च सत्यमुल्लङ्घ्य पारमार्थिकसत्याधिगम एव मुमुक्षूणां चरमं लक्ष्यम्।' इति।