आत्मविश्वासप्रबोधनम्
अगणितव्यसनैः क्लिश्यमानोऽविदिततद्धेतुर्भृशं सन्तप्यमानः कोऽपि पुमान् स्वदुःखप्रशमनोपायमन्विष्यन् कस्यचित् प्रशान्तचेतसो मुनेस्तपोवनं जगाम। प्रणिपत्य च तं महाभागमसावेवं न्यवेदयत्— “भगवन्, अविरतविपत्तिपातो मां नितरामुद्वेजयति। नाधिगच्छामि खल्वस्माद्व्यसनार्णवात्तीरम्। शिष्यस्तेऽहम्, शाधि माम्, दिश च मे श्रेयःपन्थानम्” इति।
आकर्ण्याप्यदः करुणं वचो मौनमेवाजुषत स तापसः। किञ्चित्कालं प्रतीक्ष्यापि पुनः पुनरपि सनिर्बन्धं याचमानेऽप्यस्मिन्, वाचंयम एवावतस्थे स महाशयः।
अथ मुनेस्तन्मौनं सोढुमपारयन् क्रोधावेशेन समुत्थाय स पुमान् जगर्ज— “व्यसनापनोदमाकाङ्क्षमाणोऽहं त्वत्सकाशमुपागमम्, त्वं तु मामवधीर्य तूष्णीमास्से। तदलमनेन वृथा तवोपासनेन। स्वबाहुबलेन निजप्रज्ञया च सर्वमपि सङ्कटमुत्तीर्याहमेव स्वमार्गं परिष्करवाणि। नार्थो मे त्वदीयेनानुग्रहेण मार्गदर्शनेन वा” इति सरोषमुदीर्य ततः प्रतस्थे।
ततः प्रस्थातुकामं तमालोक्य मन्दस्मितपुरःसरं मुनिराचख्यौ— “वत्स, अवगच्छसि खलु कथमधुना स्वसङ्कटानि स्वयमेव प्रतियोद्धुमुत्सहसे? सर्वदुःखप्रशमनो ह्ययमेवात्मविश्वासः। तमिमं भावमुररीकृत्याग्रे गच्छ। विलीयन्ते ह्यचिरादेवामी ते सर्वे क्लेशाः” इति।