You are here: Home » stories » 152
151 
 153

कर्तव्यनिर्णयप्रकर्षः

आयोजयाञ्चकार कदाचिदेकः कीनाशो भगवतः सुगतस्य धर्मदेशनामहोत्सवम्। निपिपासवश्च तदीयमुपदेशामृतं समुपतस्थिरे बहवो जानपदास्तस्मिन् प्रवचनदिने। परन्त्वहो! आयोजक एवासौ कीनाशस्तस्मिन्नवसरे न प्रादुरभूत्।

तदुपलभ्य च मिथः सम्प्रजजल्पुर्ग्रामीणाः - “पश्यतामुष्य कीनाशस्य दाम्भिकत्वम्, यो हि देशनाकाले स्वयमनाविर्भवन् भगवति सुगतेऽवज्ञामेवाविश्चकार। न नूनमयं शाक्यमुनेर्भक्तः” इति।

अश्रावि चेदं भगवताऽपि। अपरेद्युश्च सर्वसमक्षं तमायोजकं कीनाशं पप्रच्छ सः - “अङ्ग! किमर्थं ह्यो देशनाप्रस्तावे त्वमनाविरासीः?” इति।

अथ स कीनाशो जगाद - “भगवन्! किं करवै? ह्यो मे बलीवर्दः भृशमामयग्रस्तो बभूव। न च गृहचिकित्सया कश्चिदपि फलोदयोऽजनि। दवीयान् खल्वभूत् पशुचिकित्सालयः। ततश्च तत्र गत्वा महता कृच्छ्रेणास्यामयापनोदनं व्यधायि मया। साम्प्रतमेष स्वास्थ्यमश्नुते। अमुष्मिन्नेव कर्मणि भृशं व्यापृतोऽहं देशनासमये समुपस्थातुं नाशकमिति।”

तदा सुगतो जनानभिमुखीभूय प्रोवाच - “ह्योऽहं भूतदयां कर्मनिष्ठां च प्राधान्येनान्वशिषम्। अयं त्वमुष्यैव तत्त्वस्यानुष्ठाने प्रावर्तिष्ट। कस्य कर्मणः प्राथम्यं कस्य च पश्चाद्भाव इत्यस्य निर्णये सारासारविवेकः काङ्क्ष्यते। यद्ययमृषभचिकित्सायामन्यं व्यापार्य प्रवचनस्थले समुपस्थास्यत्, तर्हि समुचितचिकित्साविरहेणास्य बलीवर्दो प्राणानहास्यत्। साध्वेवाकार्षीदसौ स्वकर्तव्यप्राधान्यं विमृशन्” इति।

151 
 153
Search
stories/152.txt · Last modified: 2026/04/24 09:55