निष्कामपरोपकारः
दस्युः कश्चन पुरा किल पान्थप्रमथनेन प्राणिहिंसया च वित्तापहाररतो बभूव।
कदाचिदनुशयसन्तप्तचेताः स कञ्चन देशिकवरमुपसृत्य पप्रच्छ— “भगवन्, अज्ञानान्धोऽहं बहून् प्राणिनो यमसदनमनैषम्, पापानि चाकार्षं भूरीणि। साम्प्रतं सन्मार्गं लिप्सुरस्मि। कृपया मे श्रेयःपथमुपदिश” इति।
देशिकस्तु तस्मै कञ्चन नीरन्ध्रकृष्णवर्णं केतुं प्रदाय जगाद— “अमुमादाय तीर्थाटनं कुरु। यदा खल्वसौ ध्वजः श्वेतिमानमापद्येत, तदैव ते पापेभ्यो निष्कृतिर्भवित्री” इति।
तदाकर्ण्य प्रहृष्टमनाः स तस्करस्तदहरेव तीर्थयात्रां प्रचक्रमे। शताधिकेषु पुण्यतीर्थेषु सस्नौ च। तथापि स केतुर्धवलिमानं नापेदे। तेनासौ भृशं विषादं जगाम।
अथ कदाचिदरण्यपथेन गच्छन्नसौ कैश्चिद्दुराचारैर्बलादपह्रियमाणां काञ्चित् प्रमदां ददर्श। तद्दृष्ट्वा प्रज्वलितक्रोधामर्षः स तस्या रक्षणाय जवेनाभिदुद्राव।
यद्यपि ते दुरन्तकर्माणो दशाधिका आसन्, तथाप्यच्युतधैर्योऽसौ तेषामेकमादौ निपात्य तद्धस्तान्निस्त्रिंशमाच्छिद्य तान् सर्वान् संहर्तुमुपचक्रमे। प्रायेण मुहूर्ताभ्यन्तरेणैव तान् सर्वान् पापकृतः स निजघान।
तां भयविह्वलां नारीं समाश्वास्य स तस्करो मनसाऽन्वशोचत्— “प्रागेव बहून् प्राणिनो निहत्य महान्तं पापौघमहमार्जयम्। साम्प्रतममून् दशाधिकानप्यहं पञ्चतामनैषम्। अतो मे पापभारः सुतरां प्रवृद्धः” इति।
किन्त्वहो विस्मयः! तावता तस्य करे स्थितः स केतुः पूर्णतया धवलिमानमापेदे। तेन परं प्रहर्षमुपगच्छन् स तां प्रमदां स्वगृहं प्रापय्य, देशिकमुपगम्य सर्वमुदन्तं न्यवेदयत्।
तदा देशिको जगाद— “तीर्थस्नानावसरे त्वया केवलं स्वार्थ एवाकाङ्क्ष्यत। अतस्ते केतुर्मलीमस एवावतस्थे। परमबलारक्षणावसरे परोपकार एव मनसि निदधे त्वया। अत एवायमवदाततामगात्। इतः परं परोपकारपरायणो जीव। तेन त्वं परमां गतिमवाप्स्यसि” इति।