अमृतरसायनं हि सत्सङ्गः
ददर्श किल पर्यटन्कश्चनावनीपतिः किञ्चिन्नातिविस्तृतं तपोवनम्। अधिजगिरे तत्र नैके ब्रह्मचारिणः। आविश्चकार तस्य निःस्वतां तदीयानाडम्बरता। जगाद स भूमिपस्तदाश्रमकुलपतिं संयमीन्द्रमुपेत्य, निधाय च तदग्रे जातरूपनिष्कपूरितं भाजनम् - 'व्यपनुदतात्त्वदाश्रमदारिद्र्यमयमर्थः' इति।
'वितर दरिद्रेभ्य इमानि द्रविणानि। न हि नः प्रयोजनममीभिः' इति प्रत्युवाच स वीतरागः।
'कथं न्वर्थं विना प्रभविष्यसि साधयितुमाश्रमयोगक्षेमम्?' इति पप्रच्छ पार्थिवः।
'अस्त्यन्योऽप्युपायोऽस्मदन्तिके तन्निर्वहणाय। विद्मस्तावद्वयं लोहं शातकुम्भीकर्तुं धातुवादम्' इत्युवाच स मुनिः।
'मयापि किलाकाङ्क्ष्यते सा रसेश्वरविद्या! यद्यासादयेयमहं ताम्, भूयान्महीयानुपकारो मे राज्यतन्त्रे। किं नु मामप्युपदिशेस्तां विद्याम्?' इति सोत्कण्ठमपृच्छद्राजा।
'किमिति न? किन्तु तदर्थं समग्रं मासमेकमस्मिन्नाश्रमपदे निवसञ्छृणुयाः सतां सङ्गे धर्मकथाः' इति न्यगादीत्स तपोधनः।
तथेति प्रतिश्रुत्य तत्रैव न्यवात्सीत्स पृथिवीपतिः। अतीयाय च मासः। ततोऽप्राक्षीत्स तपस्वी - 'अपि श्व उपदिशानि ते तां हाटकविधायिनीं रसेश्वरविद्याम्?' इति।
'भगवन्! नालं मे तया। परिपूर्णं हि मे चेतः सत्सङ्गसुधारसायनेन। सतामुपास्त्या खल्वमी प्राणिनः प्रमुच्यन्ते लोभमोहादिमानसविकारेभ्यः। तस्मादखिलेऽपि जनपदे कल्पयिष्यामि तादृशानां साधुसमागमानामायतनानि। तेनैव खलु समेधेत पौरजनजीवनस्तरः, स्फीयेत च राष्ट्रस्य भद्रम्' इति निजगाद स भूमिपालः।