You are here: Home » stories » 160

शोकात्कर्तव्यं गरीयः

आजगामान्तःपुरमतिमात्रविषादमन्थरो गुरुर्गोविन्दसिंहः। यतो हि मुगलाहवे परमां वीरगतिमवापुरमी तस्य चत्वारोऽप्यौरसाः।

पप्रच्छ तमासीनं प्राणनाथं सा भार्या - “क्वामी आवयोस्तनयाः? किमु नागमन्नमी?” इति।

क्षणमास्थाय मौनं निजगाद सः - “अयि प्राणप्रिये, नातः परं पुनरेष्यन्त्यमी नश्चत्वारोऽपि तनूजाः, यतो धर्मसङ्ग्रामे शूरगतिमवापुरमी” इति।

इमामतर्कितदारुणां गिरमाकर्ण्य भृशं शुशोच सा। “किमिदानीं न सन्त्येव मे चत्वारोऽपि सुताः? का वा गतिरतः परं मे? कथं वा शाम्येन्मे हृदयदवथुः? हा धिग्धातारम्! कीदृशीमनवस्थामप्रापयस्त्वम्! धिक् ते नैर्घृण्यम्!” इत्येवं परिदेवमाना भृशं प्ररुरोद। तस्याश्च गण्डफलकयोरश्रुनिर्झराः प्रास्यन्दन्त।

प्रशान्तगम्भीरमुवाच गोविन्दसिंहः - “किमित्येवं रोदिषि त्वम्? किमु सुतविप्रलम्भो मां न दुनोति? भृशमेव दुनोति। तथापि सम्प्रति विधेयं कर्मानुस्मरन् कृच्छ्रात् सर्वं तितिक्षे। प्रादाद्विधाता सर्वमदः। किं वृथा परिदेवितेन पुनरेष्यन्ति ये शूरलोकमवापुः? न हि जातु।”

“सरलो ह्युपदेशः, दुष्करं त्वनुष्ठानम्। कथं वा त्वया पुरुषेणावगम्येत मातुर्मे हृदयशोकः?” इति रोषताम्रमुखी जगाद सा।

ततो निजगाद गुरुः - “अमृतात्मजत्वमवापुरमी आवयोस्तनयाः। तत्र गर्वितव्यमावाभ्याम्। न खल्वावयोरश्रुपातोऽमीषां सद्गतिं रुन्ध्यात्। तत्त्वतस्तु समरे ये निपेतुस्ते सर्वेऽप्यस्मदीया एव सुताः। सुतशोकविह्वलाः पितरोऽस्माभिरेवाश्वासनीयाः। प्रजा एवास्मदपत्यानीति भावय। अस्या भावनाया अनुष्ठानादपूर्वमानन्दमवाप्स्यसि त्वम्। अमुष्मिन् परिसरे यदि मनो रमेत, तर्हि सानन्दं जीवेम। अन्यथा त्वशान्तिपारावारे निमज्जेम। अत एव विद्वांस आचक्षते - संसारेऽमुष्मिन् निर्लेपाः सन्तो जीवेमेति। तदुत्तिष्ठ। स्वकर्तव्यपरायणा भव” इति।

Search
stories/160.txt · Last modified: 2026/05/20 13:32