तीव्रतर्षदृष्टान्तः
अध्युवास कश्चिदाचार्यो गुरुकुलम्। अमुष्य च छात्रावभूताम्। अनयोरेकः स्वाध्यायैकाग्रमनाः, इतरस्तु जाड्योपहतमतिः। जातुचिदसौ मन्दधीरुपाध्यायमुपेत्य पप्रच्छ—“भगवन्! पूर्वमेवाहमत्रागतः। अथापि मत्सब्रह्मचारिणमेव भृशमनुशास्सि। पक्षपातोऽयं किमनुगुणो न्यायस्य?” इति।
मुहूर्तं विमृश्य व्याजहाराचार्यः—“कथामेकां तावदाख्यामि, निशामय। पन्थानमवगाहमानः कश्चन पान्थस्तीव्रपिपासया परीतो बभूव। स खलु किञ्चिदौदपानमद्राक्षीत्। कूपतीरे कुम्भोऽविद्यत, परं न गुणः। ततश्चासौ नैराश्यात् पुरतो जगाम। अत्रान्तरे तदेवोदपानमाससाद कश्चिदन्योऽध्वगः, सोऽपि तृषार्तः। स च कुम्भं दृष्ट्वा रज्जुन्न पश्यन् समन्ततो दृशं व्यापारयामास। परिसरे प्ररूढानि लम्बमानानि तृणानि वीक्ष्य तान्युत्पाट्य रज्जुरूपेण जग्रन्थ। ततस्तेन गुणेन कलशमवतार्य जलमुद्धृत्य च स्वामुदन्यामपानुदत्।”
इमामाख्यायिकां श्रावयित्वा पप्रच्छ गुरुः—“आद्येन पान्थेन नासादि पयः, द्वितीयेन तूपलब्धम्। कतमोऽत्र हेतुरुत्प्रेक्ष्यते त्वया?”
शिष्यः प्रत्यवदत्—“द्वितीयस्य खलूदन्या बलीयसी बभूव। अत एव तोयोपलब्धये सम्यगुपायमनुसन्धाय स भूयांसमायस्यत् । तेनैव पयो लब्धममुना” इति।
“त्वदीयप्रश्नस्योत्तरमवापीति मन्ये। ते सब्रह्मचारिणो विद्याव्यसनं दृढतरम्। अतोऽसौ भृशं प्रयतते, यत्नानुरूपं फलं चाश्नुते। तव तु ज्ञानलिप्सा मन्दैवास्ते। अतस्ते यत्नः शिथिलः, फलमपि स्तोकमेव” इति न्यगददाचार्यः।
स्वदोषमवबुध्य त्रपया शिरो नम्रीचकार स छात्रः।