You are here: Home » stories » 162
161 
 163

मानापमानातीतप्रशान्तचित्तः कविः

कदाचिन्निजस्वरूपं प्रच्छादयन् पृथिवीपरिवृढो मानसिंहः कुम्भनदासनाम्नः कवेरुटजमुपजगाम। तदा खलु कुत्रचित् प्रयियासुः स वाग्मी स्वसुतामेवमाबभाषे - “वत्से, भालदेशे तिलकं चिकीर्षामि, तन्निमित्तमादर्शमुपाहर” इति। तातस्यादेशमनुपालयन्त्याः कुमार्याः कराब्जात् प्रमादात् परिस्खलन् मुकुरो भुवि निपत्य शतशकलीबभूव। अमुमुदन्तं निरीक्ष्य प्रशान्तचेताः स जगाद - “वत्से, मा स्म शुचः। पृथुमुखेन केनचिदमत्रेण सलिलमाहर। तस्मिन्नेवामले नीरे निजाननं विलोक्य तिलकं विरचयिष्यामि” इति। ततो दुहितरि तोयमुपाहरन्त्यां तत्रात्मनो वदनं पश्यन् भालदेशं तिलकेनालङ्कृत्य स भवनान्निर्जगाम।

अमुं सर्वमुदन्तं निभृतं ददर्श स छद्मवेषो नृपः। कवीन्द्रेण सार्धं कियदपि सम्भाष्य स तस्मात् स्थानात् प्रतस्थे।

परेद्युः शातकुम्भपर्यन्तभास्वरं कमपि महार्हं मुकुरमुपाहृत्य कवेः करकमलेऽर्पयन् नृप उवाच - “कविपुङ्गव, मदीयमिदं क्षोदिष्ठं प्राभृतं परिगृह्यताम्” इति। तदानीमेव कविर्बुबुधे यत् पूर्वेद्युश्छद्मवेषं बिभ्रदयमेव क्षमापतिरगादिति। स तमाह - “राजन्, ह्यः प्रच्छन्नरूपेण त्वमेव मदीयोटजमगाः खलु? यत्त्वं मदीयावासमगाः तत्तु मे परितोषाय कल्पते, परं तु…“। “किमिति 'परन्तु' इत्युदाह्रियते?” इति नृपेण पृच्छ्यमाने स आह - रिक्तहस्त एव त्वं मादृशानां कुटीरमुपगच्छेः इति मे काङ्क्षा। गिरां देव्याः करुणाकटाक्षमेवाहमभिलषामि, न खलु श्रियः। ईदृशानि हि प्राभृतानि मे चेतःप्रशान्तिं मुष्णन्तीति सप्रश्रयमगादीत् स कविः।

'अकिञ्चनत्वममुना न हि कृच्छ्रेणेवातिवाह्यते, प्रत्युत तादृश एव जीवनेऽमुष्य परमा निर्वृतिः। न कदाप्येनं लोभमोहादयो विकाराः स्पृशन्तीति विमृश्य नृपो भृत्यमादिदेश - “प्रतिनिवर्त्यतामिदमुपायनम्” इति। 'मदीये खलु राज्ये कुम्भनदासो निवसतीति मे महते गौरवाय कल्पते' इत्येष नृपतिरहरहः शशंस।

161 
 163
Search
stories/162.txt · Last modified: 2026/05/22 11:16