औदार्यविपाकः
निषसाद किल विषण्णचेता मार्गपार्श्वे कोऽप्यर्थी कस्याञ्चिद् विशिखपल्ल्याम् । अवततार ततस्तरसान्तरिक्षात् स्मरणीयौजसो दिव्यपुरुषस्याधिष्ठानं हाटकमयः स्यन्दनः । तमालोकयत एवोत्फुल्लहृदयस्यामुष्योदीयाय मतिः— “अमोचि मेऽद्य दैन्यवृत्तिः” इति ।
विपर्यपद्यत खलु विधातुः सङ्कल्पः । यावच्चासौ तं सुरमभीष्टवरं यियाचिषते, तावत् स्वयमेव स देवोऽमुं कृपणं भिक्षामर्थयाञ्चक्रे । अनेन च विस्मयं परितः प्रपेदे स याचकः, विशकलितमनोरथाश्चास्य शतधा विभिन्नमुकुर इवापतन् ।
व्यतारीच्चासौ महता विषादेनावज्ञया च स्वस्य याच्ञाभस्त्राया एकं व्रीहिकणममुष्मै देवाय, बभाषे च— “तण्डुलान् एवाहं बुभुक्षे । आर्जिषं चामून् भिक्षाचर्यया । यत् किमपि मे हस्तगतं तदणीय एव । तस्मात् किमिवोद्दिश्य वितरेयम् ? तथाप्यर्थयसे त्वमिति हेतोर्लाक्षणिकं व्रीहिलवमेकं विश्राणयामि, उपादत्स्वामुम्” इति ।
किञ्चिदुन्मिषितस्मितः स देवोऽमुं लवं जग्राह, तिरोदधे च । गर्हयमाणो निजं दुर्दैवं स्वमावासमाजगाम भिक्षुकः ।
उपातस्थे च शर्वरी । निराकार्षीच्चासौ निजभस्त्रायाः सञ्चितं भिक्षाराशिम् । तदवसरे पदयोर्न्यपतत्तस्य कश्चन हिरण्मयो व्रीहिकणः । विस्मयोत्फुल्ललोचनः स स्वगतमगादीत्— “अहो मे मौढ्यम् ! अदामहमेकमेव लवममुष्मै । यद्यदास्यं मुष्टिप्रमितं धान्यं, नूनं तावदेव शातकौम्भमलप्स्ये । तेनाभविष्यं च क्षोणीपतिनिभो धनिकः” इति ।
तस्मादेवेदं निगद्यते—त्यागो हि ग्रहणात् प्रथीयान् इति ।