You are here: Home » stories » 164
163 
 165

वित्तात्प्रशस्यते त्यागः

अपीडि तीव्रेण गदेन जराजीर्णोऽसौ गोवल्लभः, यः किल समस्तमायुरक्षुद्रद्रविणराशीनामुपभोग एवानैषीत्। अहन्यहनि तल्प एव निषण्णममुं विविधाश्चिन्ता जघ्नुः— 'हा धिक्, नाकार्षं किञ्चिदपि सुकृतमायुषि। तत्कथं नु नाम प्रेत्य शोभनां गतिमाप्नुयाम्? का वा दशा भवेदमूषां सम्पदामित्यपि न वेद्मि' इति।

इत्थं वितर्कदोलाधिरूढोऽसौ शुश्राव किञ्चिच्छ्रुतिपेशलं गानम्। यस्य चायमर्थः— 'अन्त्ये वयसि न दारा न वा सुता उपतिष्ठन्ते। न वा तत्र किञ्चित्करोति सञ्चितं द्रविणम्। केवला भगवदनुरक्तिः सुचरितानि च श्रेयसे कल्पन्ते' इति। आपीतकर्णरसायनेनामुना गानेन भृशं ननन्दासौ, आहूय च परिचारकमादिदेश— 'य एष गायति, तमिह प्रवेशय' इति।

ततः परिचारकः प्रत्यवोचत्— 'स्वामिन्, न स कोऽपि गान्धर्वविद्याविशारदः, अपि तु कश्चन चर्मोपजीव्येषः। स्वकर्मणि व्याप्रियमाणः कदाचिदुत्फुल्लहृदयस्तारस्वरेणैवं गायति' इति।

'भवतु नाम यः कोऽपि, तमिहानय' इति धनपतिर्जगाद। अथ भृत्यस्तमन्तः प्रावेशयत्। तं च प्रविष्टमवलोक्य स धनिकस्तस्मै किञ्चिद्वित्तं व्यतरत्, उवाच च— 'ते गानमाकर्ण्य परमां निर्वृतिमागमदस्मदीयमानसम्। श्वोऽप्येवमेव गायेः। श्वोऽप्यहं तुभ्यं वसु वितरितास्मि' इति।

परेद्युस्तु तमेव धनिकमुपससर्प स चर्मोपजीवी, तत्प्रदत्तं च वसु प्रत्यर्पयन्नुवाच— 'अमुष्य वित्तस्य रक्षणचिन्तया दूयमानो नाहमाशकं भगवन्तं स्मर्तुम्। अत एव गाने न प्रादुरभून्मे कोऽप्युत्साहः। वित्ते सति सुदुर्लभः परमानन्दः। तदिदं प्रतिगृह्णीष्व' इति।

आकर्ण्य चैतत्तत्त्वदर्शनादुन्मिमेष प्रज्ञाचक्षुरमुष्य धनपतेः। ततः स स्वां सम्पदं निष्किञ्चनेभ्यो विततार, अनवरतं च भगवन्तं स्मारं स्मारं परमां शान्तिमुपजगाम। तेन चास्य रुगप्यपागात्।

तत एवाहुर्मनीषिणः— आदानादपि प्रदानमेव गरीय इति।

163 
 165
Search
stories/164.txt · Last modified: 2026/05/22 15:51