सूक्ष्मावबोधमहिमा
धर्मेण गां शशास कोऽपि क्षमापतिः। परिणते वयसि स निजतनयमेवमादिदेश - “हा वत्स! यद्यपि विद्याविनयसम्पन्नोऽसि, तथापि राज्यधुरमुद्वोढुं कल्पसे न वेत्यहं न प्रत्येमि। तस्मादमुष्य राष्ट्रस्य सीम्नि तपोवनमधिवसन्तं कमपि मुनिपुङ्गवमुपसृत्य तस्योपदेशमाशयं चाधिगच्छ” इति।
अथ परेद्युरेव तं तपस्विनं दिदृक्षू राजसूनुस्तदाश्रमपदमुपजगाम। सकलमुदन्तमाकर्ण्य स मुनिराह - “श्वः प्रभातमारभ्याहर्विरामावधि विपिने विहृत्य तत्रत्याननुभवान् मह्यमाचक्ष्व” इति।
अन्येद्युरावसन्ध्यमटव्यां व्यहार्षीत् स कुमारः। मुनिना चानुयुक्तः स्वानुभवमेवमवर्णयत् - “मतङ्गजानां बृंहितमश्रौषम्। महाद्रुमाणां निपातमद्राक्षम्। जीमूतनिर्ह्रादमाकर्णयम्। तडिद्विलसितानि चाद्राक्षम्” इति।
“नाद्यापि प्रगल्भतामवापस्त्वम्। तस्मादागामिनि संवत्सरे पुनरेहि” इत्यन्वशात् स यतीन्द्रः।
अथ प्रतिनिवृत्तो राजसूनुरागते संवत्सरे पुनरुपेत्य गुरोरादेशमन्वटव्यां दिनमेकं यापयित्वा स्वानुभवमेवमाचचक्षे - “आखुं ग्रसमानमुरगमद्राक्षम्। तस्य मूषकस्य चीत्कृतमश्रौषम्। स्वशावकान् स्तन्यं पाययन्तीं शिवामद्राक्षम्। चमरपुच्छस्य रुतञ्चाकर्णयम्” इति।
“सम्यक् ते प्रकर्षः। तथापि राजश्रियमुद्वोढुं नाद्याप्यर्हसि। तस्मादेकहायनानन्तरं भूय एहि” इत्यन्वशात् स महात्मा। ततः प्रतिनिवृत्तो राजपुत्रः परिवत्सरेऽतीते पुनरागत्यारण्ये न्यवात्सीत्। वनवासानुभवं निवेदयन् स एवमब्रवीत् - “अस्मिन्नवसरे निर्झराणां मञ्जुलनादं, मक्षिकाणां झङ्कारञ्चाश्रौषम्। कुसुमानां परिमलमघ्रासिषम्। अरण्यस्य नीरवतामप्यलक्षयम्” इति।
“साधु! साम्प्रतं राजश्रियमुद्वोढुं कल्पसे। जनकाय वृत्तान्तमिममाचक्ष्व” इत्युवाच स मुनिः।
राजसदनं प्रत्यागतः स कुमारो जनकं पप्रच्छ - “का नाम योग्यता मम परीक्षिता ?” इति।
“प्राक्तनयोः प्रसङ्गयोर्महानादा एव त्वयाश्राविषत, स्थूलविषया एव चालक्ष्यन्त। अस्मिंस्तु पर्याये सूक्ष्मत्वं त्वया सम्यगबुध्यत। प्रकृतीनां क्लेशान् शासनस्य सूक्ष्मांशांश्च यो वेत्ति स एव प्रजारञ्जने क्षमो महीपतिर्भवितुमर्हति” इत्याह राजा।
नूनं सूक्ष्मावबोध एव जीवनस्य परमं रहस्यम्!