You are here: Home » stories » 178
177 
 179

शिल्पिनो वाक्चातुरी

आलेख्यविद्याविशारदः कोऽपि शिल्पी बभूव। स्वकीयां प्रतिकृतिं निर्मिमापयिषुरमुमुपजगाम कश्चिदिभ्यः। तदनु स चित्रकृदमुष्य रूपं पटे सम्यगालिलेख। प्रार्थितं मूल्यमदित्सुरयं वणिगमुष्मिन्नालेख्ये कल्पितान् दोषानुद्भावमुद्भावम् “यथाहं वर्ते नैवमियमस्ति” इति ब्रुवाणः क्रयणं निराचकार।

ततोऽपरमालेख्यं व्यलिखत् सः। तदप्यनवद्यमेवाविरासीत्। तथाप्यमुष्मिन्नपि दोषान् प्रकाशयन्नसौ “न हि मे सादृश्यमत्रापि दृश्यते” इति बभाषे। अनेन भृशं दुर्मनायमानोऽसौ चित्रकृत् सुहृदा सह सम्मन्त्र्य तस्य धनपतेर्निवेशनमुपेत्य जगाद - “चित्रद्वयमहमालेखिषम्। परमुभयत्रापि न स्वसादृश्यमज्ञासीस्त्वम्। हीनाङ्गसाहाय्यार्थं धनसञ्चयाय सर्वकारो ह्यस्मान् समादिक्षत्। तदर्थमेवादश्चित्रद्वयमुपयोक्ताहे” इति।

“कथमिदमुपपद्येत? मदीयान्येव वक्त्रगात्रादीन्यत्र विलसन्ति। अस्यान्यस्मिन् कार्ये विनियोगः कथं नु सङ्गच्छेत? मामपमानयितुमेवायं ते व्यापारः” इति चुक्रोध स श्रेष्ठिप्रवरः।

“यच्चित्रयुगं मया व्यलेखि, तत्रापि नाद्राक्षीः स्वसादृश्यं त्वम्। चित्रगतेष्वनेकेष्वङ्गेषु वैकृतमप्यैक्षिष्ठाः। यच्चित्रं न तावकं, यस्मिंश्च भूयांसोऽङ्गदोषा भवेयुः, तस्यापरकार्ये विनियोगे का ते क्षतिः? कथं वावमानस्ते सम्भवेत्?” इति प्रत्युवाच शिल्पी।

एतदाकर्ण्य हतबुद्धिरसौ वणिक् समुचितं निष्क्रयं विश्राण्यादश्चित्रद्वयमप्यक्रीणात्।

177 
 179
Search
stories/178.txt · Last modified: 2026/05/27 14:24