You are here: Home » stories » 184
183 
 185

पित्रनुग्रहवैभवम्

विद्याधिगमाय निजसूनोः केनचित्पित्रा कापि निरुपमा व्यवस्था चक्रे। सम्यगधीत्य च स सूनुः कस्मिंश्चिच्छ्लाघ्ये कर्मण्यधिकृतो नातिदीर्घेणैव कालेन तन्महासमित्यध्यक्षपदवीमारुरोह। अन्विष्य च काञ्चित्कल्याणीं कन्यकाममुं दारैः संयोजयामास स तातः।

दिदृक्षुरथ कदाचिदमुं निजसूनुं तदीयं कर्मस्थानमयासीदसौ। शताधिकाः कर्मकरास्तदादेशवशंवदास्तत्र कर्माणि चक्रुः। अत्यन्तसुसज्जिते विशाले प्रकोष्ठे निषसादासौ सूनुः। तातमुपस्थितं वीक्ष्य सप्रहर्षं स्वासनादुत्थाय तच्चरणौ स्पृष्ट्वा प्रणिपपात चैनम्। तातस्तु तत्स्कन्धे निजकरकमलं निधाय सस्मितमेवं पप्रच्छ— “अपि पृच्छेयं त्वामेकं प्रश्नम्? अवक्रान्तःकरणेन त्वया प्रतिवचनीयमदः। को नाम खल्वस्मिन् जगति सर्वाधिकबलशाली पुमान्?”

ततः सूनुर्जगाद— “मदृते को वा तादृशः पुमान् भवितुमर्हति?” इति।

आकर्ण्य चैतदुत्तरं म्लानवदनो बभूव स पिता। “मदनुग्रहादेवायमभ्युदयमवाप, तस्मान्मामेव सर्वाधिकबलशालिनं निर्दिशेत्” इत्येवमन्वमिमीतासौ तातः। स्वात्मन एव बलशालित्वप्रख्यापनं तदीयं निशम्य तु स भृशं विषसाद।

अचिरादेव सूनुमापृच्छ्य तस्मात् स्थानान्निरगात्सः। सूनुरप्येनं मुख्यद्वारं यावदनुवव्राज। ततः प्रस्थानात्प्रागेव तातस्तमुवाच— “हा वत्स! किमर्थमात्मानमेव सर्वाधिकबलशालिनमवोचस्त्वम्? किमेतावतया श्रिया गर्वितोऽसि?”

तदा सूनुः प्रत्युवाच— “तात! प्रश्नकरणवेलायां त्वदीयं करकमलं मे स्कन्धे न्यस्तमभूत्। यस्य खलु स्कन्धे पितुः करकमलं वर्तेत, कथमसौ न महाबलशाली भवेत्? मम गर्वस्तु त्वामेव पितरं लब्ध्वा” इति।

निशम्य चैतदमृतोपमं वचनं स तातस्तं गाढमुपगुह्यानन्दाश्रूणि मुमोच।

183 
 185
Search
stories/184.txt · Last modified: 2026/05/25 11:56