सत्यपरीक्षकासन्दः
उवास पुरा किल रोमहर्षनामा वणिगेकः। प्रतस्थे स कदाचिद्वणिज्यायै दिगन्तरम्। जिगमिषुश्च सख्युर्लोभनाथस्य मन्दिरमासाद्य बभाषे - “वयस्य, स्वीयद्रविणजातस्य रक्षणाय तवानुकूल्यमभिलषामि” इति। तदाकर्ण्य प्रतिशुश्राव लोभनाथः। निक्षिप्यामुष्य निवेशने स्ववित्तं तत ऊर्ध्वं परदेशं जगाम रोमहर्षः।
यदा बहुतिथः कालो व्यतीयाय, तदा परदेशान्निवृत्य रोमहर्षस्तमुवाच - “प्रतिजिघृक्षामि मदीयं वित्तम्” इति। जगाद तदा लोभनाथः - “वयस्य, किमिदं व्याह्रियते त्वया? ननु समग्रमपि धनं प्रागेव मया तुभ्यं प्रत्यदायि।” चुक्रोध रोमहर्षः - “रे अनृतवादिन्! अद्यैव खल्वहं विदेशान्न्यवर्तिषि। तत्कथमिव मे धनं प्रागेव प्रत्यापयेथाः? मृषैव भाषसे त्वम्” इति।
परिजिहीर्षू विवादमिमं तौ धर्माधिकरणं जग्मतुः। व्यराजत तत्र कश्चनाद्भुत आसन्दः, यस्य दक्षिणपार्श्वे निशितः कोऽपि निस्त्रिंशो ललम्बे। ऐक्षतासावासन्दः स्वस्मिन्नुपविशतः पुंसो वचनानां सत्यतां सूक्ष्मेक्षिकया। यद्युपविशन् कश्चिदनृतं जल्पेत्, तर्ह्यसावासन्दस्तस्य मृषावादिनः करं तेन निशितेनासिना छिन्द्यात्।
उपावेशयामासुः प्रथमतो धर्माधिकारिणो रोमहर्षमेव तस्मिन्नासन्दे। बभाषे च सः - “अपजहार मे सर्वस्वं लोभनाथः। तदमुनैव तत्प्रत्यर्पणीयम्” इति। न चकारासन्दस्तु कमप्यसिप्रहारम्। उपससर्प तदनु लोभनाथोऽपि तमासन्दम्, “भद्र, गृह्यतां तावदियं मे यष्टिः” इति रोमहर्षं निगद्य, तद्धस्ते स्वदण्डं प्रदाय च, तत्रोपविश्यावोचत् - “प्रत्यपादयमहमस्मै समग्रमपि वित्तम्” इति।
अवतस्थे तदापि धर्मासनं तूष्णीमेव। प्रतिजग्राह ततो लोभनाथः स्मितपूर्वकममुष्माद्धस्तात् स्वयष्टिम्। आपुस्तत्रासीनाश्च जनाः सविस्मयमाश्चर्यम्, यतो ह्यसावासन्दो विरुद्धमपि वचनद्वयं सत्यमित्येवानुमेने।
उपास्त तदानीं सभासत्सु कश्चिद्यतिवरः। आच्छिद्य स सहसा लोभनाथकरात् तां यष्टिं तरसा बभञ्ज। यदा स तां यष्टिं बभञ्ज, तदा तस्या दण्डान्तरालात् निगूढानि हाटकनाणकानि प्रपेतुः। अज्ञासीत्तद्दृष्ट्वैव सर्वोऽपि जनो याथार्थ्यम्। निचिक्षिपुस्ततश्च धर्माधिकारिणस्तं शठं लोभनाथं कारागारे।