You are here: Home » stories » 186
185 
 187

स्वातन्त्र्यतरुबीजायितः संलापः

सञ्जग्मे खलु जातु राजेन्द्रप्रसादाख्यो विपश्चिद् गान्धिमहात्मना। सुविदितमेवासीदमुष्य दक्षिणाफ्रिकाजनपदे यदुदचरदसौ महात्मा, अत एव सुमहतीं प्रह्वतामबबन्धासावमुष्मिन्। धर्माधिकरणे निष्क्रयं विनैव चम्पारण्यकृषीवलानां कृते विवादं निर्वहत्यसौ सुधीरिति बुबुधे खल्वसौ महात्मा।

तमेनं सम्भावयन्नुवाचासौ - “आर्य ! यत्खल्वमीषां कृषीवलानां पक्षमवलम्ब्य वेतनमन्तरेणैव धर्माधिकरणे प्रतिजानीषे, तदतीव साधीयः।”

“अकिञ्चनाः खल्विमे चम्पारण्यभवाः कृषीवलाः। अत्याचरन्ति चामीषु भृशमाङ्ग्लशासकाः। तमेतमत्ययं प्रतिरोद्धुं धर्माधिकरणं गन्तुं नैव प्रभवन्त्यमी वराका अर्थकार्श्यात्। तूष्णींभावं क इव नाम भजेत स्वसोदर्येष्वेवं क्रियमाणमत्याचारं निशाम्य ? अत एव धर्माधिकरणं प्रत्यपत्सि। चम्पारण्यकृषीवलानां कृते त्वहं यते, परं वैदेशिकानामत्याचारेण निपीड्यते खलु समग्रमपीदं राष्ट्रम्। क इव तेषां कृते सङ्घर्षेतेति मे चेतस्तुद्यते” इति सविषादं जगादासौ सुधीः।

मुहूर्तमिव ध्यात्वासौ पप्रच्छ - “यद्यहमस्मिन् क्षेत्रे प्रवर्तेय, कच्चिन्मे साहाय्यमाचरेस्त्वम् ?”

“ममैकस्यैव किम्, समग्रस्याप्यमुष्य राष्ट्रस्य साहाय्यमवाप्स्यसि। स्वाराज्यं कामयते खल्वस्य राष्ट्रस्यैकैकोऽपि पौरः। परं न कोऽपि धुरि स्थित्वा नेतृत्वमुद्वहति, येन खल्वेष राष्ट्रव्यापी सङ्घर्षो न प्रादुर्भवति। यदि कश्चिद्दीर्घदर्शी पुमान् नेतृत्वमुद्वहेत्तर्ह्यवश्यमेव समग्रमपीदं राष्ट्रं स्वातन्त्र्यसमरे संसृज्येत। नायकशून्यतैव साम्प्रतिकानां विपदामेकं निदानम्।”

“त्वादृशानां साहाय्यं चेदुपलभ्येत, तर्ह्यवश्यमेवाहममुं भारमुद्वहेयम्” इत्युदाजहारासौ।

“बाढम् ! आरभस्व तर्हि नेतृत्वम्। अवाप्स्यसि चावश्यमेव सर्वतोमुखीं सहायताम्” इति प्रत्यनन्ददसौ सुधीः।

अस्यैव खलु संलापस्य प्रभावात् स्वातन्त्र्यसमरस्य धुरमुदुवाहासौ। समवाप चासौ प्रकामं पौरसाहाय्यम्। तत्परिणामतश्च सप्तचत्वारिंशदधिक-ऊनविंशतिशततमे (१९४७) ख्रीष्टाब्दे स्वाराज्यमलब्धेदं भारतवर्षम्।

185 
 187
Search
stories/186.txt · Last modified: 2026/05/27 12:10