स्वातन्त्र्यतरुबीजायितः संलापः
सञ्जग्मे खलु जातु राजेन्द्रप्रसादाख्यो विपश्चिद् गान्धिमहात्मना। सुविदितमेवासीदमुष्य दक्षिणाफ्रिकाजनपदे यदुदचरदसौ महात्मा, अत एव सुमहतीं प्रह्वतामबबन्धासावमुष्मिन्। धर्माधिकरणे निष्क्रयं विनैव चम्पारण्यकृषीवलानां कृते विवादं निर्वहत्यसौ सुधीरिति बुबुधे खल्वसौ महात्मा।
तमेनं सम्भावयन्नुवाचासौ - “आर्य ! यत्खल्वमीषां कृषीवलानां पक्षमवलम्ब्य वेतनमन्तरेणैव धर्माधिकरणे प्रतिजानीषे, तदतीव साधीयः।”
“अकिञ्चनाः खल्विमे चम्पारण्यभवाः कृषीवलाः। अत्याचरन्ति चामीषु भृशमाङ्ग्लशासकाः। तमेतमत्ययं प्रतिरोद्धुं धर्माधिकरणं गन्तुं नैव प्रभवन्त्यमी वराका अर्थकार्श्यात्। तूष्णींभावं क इव नाम भजेत स्वसोदर्येष्वेवं क्रियमाणमत्याचारं निशाम्य ? अत एव धर्माधिकरणं प्रत्यपत्सि। चम्पारण्यकृषीवलानां कृते त्वहं यते, परं वैदेशिकानामत्याचारेण निपीड्यते खलु समग्रमपीदं राष्ट्रम्। क इव तेषां कृते सङ्घर्षेतेति मे चेतस्तुद्यते” इति सविषादं जगादासौ सुधीः।
मुहूर्तमिव ध्यात्वासौ पप्रच्छ - “यद्यहमस्मिन् क्षेत्रे प्रवर्तेय, कच्चिन्मे साहाय्यमाचरेस्त्वम् ?”
“ममैकस्यैव किम्, समग्रस्याप्यमुष्य राष्ट्रस्य साहाय्यमवाप्स्यसि। स्वाराज्यं कामयते खल्वस्य राष्ट्रस्यैकैकोऽपि पौरः। परं न कोऽपि धुरि स्थित्वा नेतृत्वमुद्वहति, येन खल्वेष राष्ट्रव्यापी सङ्घर्षो न प्रादुर्भवति। यदि कश्चिद्दीर्घदर्शी पुमान् नेतृत्वमुद्वहेत्तर्ह्यवश्यमेव समग्रमपीदं राष्ट्रं स्वातन्त्र्यसमरे संसृज्येत। नायकशून्यतैव साम्प्रतिकानां विपदामेकं निदानम्।”
“त्वादृशानां साहाय्यं चेदुपलभ्येत, तर्ह्यवश्यमेवाहममुं भारमुद्वहेयम्” इत्युदाजहारासौ।
“बाढम् ! आरभस्व तर्हि नेतृत्वम्। अवाप्स्यसि चावश्यमेव सर्वतोमुखीं सहायताम्” इति प्रत्यनन्ददसौ सुधीः।
अस्यैव खलु संलापस्य प्रभावात् स्वातन्त्र्यसमरस्य धुरमुदुवाहासौ। समवाप चासौ प्रकामं पौरसाहाय्यम्। तत्परिणामतश्च सप्तचत्वारिंशदधिक-ऊनविंशतिशततमे (१९४७) ख्रीष्टाब्दे स्वाराज्यमलब्धेदं भारतवर्षम्।