You are here: Home » stories » 187
← 186 
 188 →

परार्थैकान्तसत्त्वो देवापिः

महीमन्वशात् पुरा प्रतीपो नाम राजर्षिः। तस्येमे देवापिशान्तनुबाह्लीकास्त्रयस्तनया जज्ञिरे। श्वेतकुष्ठोपहतदेहोऽभूदसावग्रजन्मा देवापिः। तस्मात् प्रतीपे पञ्चतामुपगते सति पैतृकं सिंहासनमध्यास्त मध्यमो भ्राता शान्तनुः। काननमवगाह्य च देवापिस्तीव्रं तपश्चचार।

न्यायेनैवावनिमवत्यमुष्मिन् राजनि, समजायत दारुणोऽवग्रहस्तदीये राष्ट्रे। द्वादश समा यावन्न ववर्ष पर्जन्यः। भृशमुद्विग्नासु प्रकृतिषु सर्वत उदतिष्ठद्धाहारवो दुस्सहः। अवग्रहस्य निदानमन्विच्छन् सांवत्सरान् पप्रच्छासौ नृपः।

सम्यग्विचार्य च ते मौहूर्तिका ऊचुः - “अग्रजे जीवत्येव यदनुजो राज्यश्रियमुपभुङ्क्ते स खलु महान् धर्मव्यतिक्रमः। अमुष्यैवाचारलोपस्य परिपाक इयमनावृष्टिः” इति। “न तु राज्यतृष्णया मया स्वयमेतदाचरितम्, अपि त्वमात्यादिभिः पौरैश्चाभिषिक्तोऽहम्। तथाप्यहमस्योपद्रवस्य हेतुरभवम्। अलमनेन पश्चात्तापेन। अस्या आपदो निस्तरणाय यद्विधेयं तदाचक्षध्वम्” इत्यब्रवीत् सः।

“प्रतिनिवृत्य राजधानीं देवापिः पुरन्दरप्रीत्यै मखं वितनोतु। तत एवोपशाम्येदयमवग्रहः” इति प्रत्यवोचन् ते सांवत्सराः। परेद्युरेवामात्यपरिवृतो विपिनमवगाह्य शान्तनुर्ज्यायसे भ्रात्रे प्रणिपत्य सकलमनर्थं न्यवेदयत्। “अवग्रहोपशान्तये राजधानीं प्रतिनिवर्तस्वार्य” इति तं ययाचे च।

“मदागमनेन प्रकृतयो यदि नन्देयुस्तर्हि ध्रुवमेष्यामि” इति प्रतिज्ञाय देवापिस्तैः सार्धं पुरं प्रत्याजगाम। पुरोधसां निदेशमवाप्य वासवं प्रीणयितुं स महाक्रतुमारेभे। परितुष्टश्च मघवा प्रकामं ववर्ष। राज्यश्रिया वियुक्तोऽपि मनागप्यखिद्यमानः प्रजानां व्यसनमपाकर्तुं पुरमेत्य क्रतुं च निष्पाद्य देवापिर्यत् प्रजाहितमियेष तदेतन्नितरां महीयते।

← 186 
 188 →
Search
stories/187.txt · Last modified: 2026/05/28 05:56