You are here: Home » stories » 188

यादृशी भावना सिद्धिर्भवति तादृशी

क्षुद्रे कस्मिंश्चित्कासारे न्यवस‍‍ंस्त्रयो भेकाः। गच्छति च काले दारुणेनावग्रहेण शुष्यत्सु तद्देश्यनिखिलजलाशयेषु, मुमुचुः प्राणान् प्राणिनः सलिलचराः।

आतङ्कव्याकुला अमी भेकाः सलिलाशयान्तरं गवेषयन्तो निरगुः। क्रोशमात्रमटाट्यमाना अपि न किञ्चिदप्युदकस्थानमाससादुः। क्लमवशाच्च मन्दं मन्दं पदानि निदधानास्तावदमुमेकमन्धकूपं ददृशुः। तदन्तरवाङ्मुखा मुहुर्मुहुरपि ते, किमस्ति तत्र जलमुत नेति गाढान्धकारवशान्नावबुबुधिरे।

जगाद प्रथमः - “कियन्तं कालमितोऽपि वृथा भ्रमेम? नूनमस्याधस्तले पयसा भवितव्यम्। तदत्रैवावतरेम” इति।

न्यषेधद्द्वितीयः - “मैवम्, अगाधोऽयमुदपानः सोपानपङ्क्तिरहितश्च। तदत्र निपातो नियतमस्माकं विनाशायैव कल्पेत। तस्माद्दैवायत्तं सर्वमिति मन्वानाः प्रत्यागच्छेम तमेव पूर्वतनं कासारम्। यावत्तोयं विद्यते तावत्तत्रैव प्राणान् धारयेम। कः खलु विधातुर्लिपिं लङ्घयितुमीष्टे?” इति।

एतदाकर्ण्य तृतीयः प्रोवाच - “अयि सखायौ, किमद्यापि न विद्यते वां पदोत्क्षेपसामर्थ्यम्? ततो भूयोऽपि यतेमहि। पुरतः प्रतिष्ठमानाः कमपि सुविशालं जलाधारमासादयेम।”

“यद्यन्वेषमाणा अपि न विन्देम तर्हि किम्?” इति पप्रच्छ प्रथमः।

“जलाशयमार्गणे प्रयतमानानामस्माकं पथि चेत् प्राणा उत्क्रामेयुः?” इति द्वितीयोऽप्यन्वयुङ्क्त।

ततस्तृतीयो बभाषे - “अलमनेन कातर्यप्रलापेन। यादृशी भावना यस्य सिद्धिर्भवति तादृशीत्यस्ति खल्वाभाणकः। तस्मात् स्वपौरुषे विश्वस्याग्रे पदानि निक्षिपेम” इति।

ततो निर्गच्छन्तस्ते नातिदूर एव काञ्चन सुविपुलसलिलां पुष्करिणीमाससादुः। तत्र च मोदमानाः कालं निन्युः। अत एवोच्यते - 'यथा चित्तं तथा फलम्' इति।

Search
stories/188.txt · Last modified: 2026/05/29 15:28