अनवच्छिन्नाश्रमः
यदीयं तपोवनं क्षितौ पृथुतमं, तस्यैव यमिनोऽन्तेवासितामधिगन्तुमियेष कश्चिदवनीश्वरः। स्वेप्सितमेतदाविष्कुर्वन् स नरपतिराघोषयाञ्चकार— “विपुलाश्रमनिर्मितये येन यावती भूः यस्मिन् प्रदेशे वाञ्छ्यते, सा तस्मै तत्रैवातिस्रक्ष्यते” इति।
इत्याघोषयति पार्थिवे, तद्वचसा प्रलुब्धा बहवो मस्करिणो भूपतेः सकाशात् काङ्क्षितं भूभागमवापुः, तत्र तत्र च विपुलानाश्रमान् निर्मातुं प्रारेभिरे। एकैकस्य च यतेरियमेवासीदाकाङ्क्षा— “मदीय एवाश्रमोऽन्येभ्यः सर्वेभ्यो वरीयान् भूयात्” इति।
अथ कदाचिन्निर्माप्यमाणानाश्रमान् दिदृक्षुर्धरणीपालः पर्यटनं चक्रे। कस्य तपोवनस्य कियान् विस्तारः, काश्च तत्र व्यवस्थाः प्रतन्यन्ते इत्येतानंशान् स सूक्ष्मेक्षिकया विलोकयाञ्चकार। एकैकोऽपि परिव्राट् स्वाश्रमस्य भाविनीं श्रियं सालङ्कारं शशंस। तत्सर्वं साकूतमवधारमवधारं, शिरःकम्पनेन स्वानुमोदनं सूचयन्, स महीपतिरग्रे जगाम।
एवं पर्यटन्नेव स नृपः कमपि महात्मानं ददर्श, यः खलु कस्यचित् शाखिनोऽधस्तात् सुखं शिश्ये। तस्य समीपमुपजग्मिवान् स पार्थिवः पप्रच्छ— “भगवन्, किमद्यापि भवदाश्रमस्य निर्माणकर्म नारभ्यते? कुत्र वा विधास्यते सः? कश्चायं कालक्षेपस्य हेतुः?” इति।
तदाकर्ण्य स मुनिराह— “निष्पन्नप्राय एव मदाश्रमः” इति।
“कथमेतत्! क्व नु स वर्तते? दिदृक्षते हि मे मानसम्” इति सविस्मयं जगाद पार्थिवः।
“अमुमखिलमपि प्रपञ्चमेव ममाश्रमं विद्धि। तत्र पुनरन्तरा कुड्यानां समुत्थापनेन किमिति तस्य वैपुल्यं ह्रासयेयम्?” इति प्रत्युवाच स योगी।
तदाकर्ण्य प्रहृष्टान्तरात्मा स नृपतिस्तस्य पादपद्मयोर्निपपाताभ्यधाच्च— “भवानेव खल्वतिशयेन वरीयान् महात्मा। निजशिष्यताप्रदानेनानुगृह्णातु मां भवान्” इति। स च योगी मन्दस्मितं वितन्वन्नाशीर्वादमुद्रया तमनुजग्राह।