मौनमेव परमोपस्थानम्
जज्ञे किल महाराष्ट्रधरायां सिद्धपुरुषधौरेयः, शिवछत्रपतेर्देशिकः, निस्सीमबोधसम्पन्नः, क्रान्तदर्शी, ग्रन्थप्रणेता, दाशरथेः प्रभञ्जनसुतस्य चानन्यभक्तो रामदासस्वामी। भगवन्नामजपपरायणस्तत्स्वरूपचिन्तनरतोऽसौ महाभागः सर्वदा वीतवीचिरिव जलधिः स्थितप्रज्ञ एव रराज। पप्रच्छ चैनमेकदा कश्चिदन्तेवासी— “आर्य! भगवन्नामस्मरणवेलायां कुतो नु ते वदनसरसीरुहे तादृशी प्रशान्तिरुल्लसति? कथं वा ते स्वान्तं मनागपि न प्रकम्पते? अस्मदीयेषु तु मानसेषु तस्मिन्नेवावसरे शतशो विकल्पाः सहस्रशश्च मनोरथाः प्रादुर्भवन्ति। कथं नु ते मानसिको भावलेशोऽपि मुखे न लक्ष्यते?” इति।
ततो व्याजहार समर्थः—“प्रागेकमितिहासं ते श्रावयामि, अवहितमनाः शृणु। उपतस्थे किल पुरा कस्यचिन्महीपतेः प्रासादद्वाराद्बहिरेको भिक्षुकः। जीर्णानि तदीयानि वासांसि। तस्य कृशगात्रतयैव सुव्यक्तमासीत्तदीयं बहुदिनसञ्चितं क्षुधापीडितत्वम्। अथापि तदीये लोचने केनाप्यनिर्वचनीयेन तेजसा देदीप्यमाने ददृशाते। दारुणं कायिकं क्लेशं विषहमाणोऽपि सोऽकिञ्चनः कथं तत्र स्थातुं पारयेदित्येवमासीत् सर्वेषां विस्मयस्थानम्। तस्मिन्नेवान्तरे निर्गत्य राजसद्मनः स सम्राट् तं भिक्षुं पप्रच्छ—“किमभिलषसि भोः?” इति। प्रत्यवादीच्च स भिक्षुः—“किमर्थमहमत्रोपतिष्ठे, ईदृश्यां विपन्नावस्थायां निमग्नः? अस्य रहस्यं यदि त्वं नावगच्छसि, तर्ह्यहमपि तद्विषये किञ्चिदपि भाषितुं नोत्सहे। त्वदग्रे ममावस्थानं किमर्थम्, का च मे स्पृहा, कीदृशी वा मे दशेत्यादिकं यदि त्वया स्वयमेव तर्क्येत तर्हि भद्रम्। मदीयोपस्थितिरेव मे याच्ञा” इति। अमुं प्रसङ्गमाकलय्य मयापि परमेश्वरं प्रति याच्ञा सर्वथैव परित्यक्ता। सततमहं जगदीश्वरस्य द्वार्युपतिष्ठे। वीतरागतया च तन्नामधेयं सङ्कीर्तयामि। मदीयावस्थैव यदि तस्मै मदीयामपेक्षां निवेदयितुं न प्रभवति, तर्हि वाग्भिः प्रकटीकरणेन किं साध्यते? अत एव श्रद्धया भावपूर्णया भाव्यम्। विशुद्धान्तःकरणेन विहितं नामस्मरणमेव सर्वोत्कृष्टम्। तेन च याच्ञाया अवसरो नैवोपपद्यते।…”