मतिमतां हि किमसाध्यम्
अहमदनगरोपकण्ठे पेडगावनाम्नि ग्रामे समविद्यत किञ्चिद् दुर्भेद्यं भूदुर्गम्। तस्य च गोप्तृत्वे न्ययुज्यत बहादुरखाननामा म्लेच्छसेनानीः। अमुष्मिंश्च दुर्गे प्रभूतानि प्रहरणानि भूरि हिरण्यं वातरंहसः सैन्धवाश्च समविद्यन्त। इमं वृत्तान्तं गूढपूरुषैर्विदित्वा श्रीशिवराजः स्वचमूपतिं हम्बीररावं समादिदेश—'हर्तव्यैषा पेडगावस्थाखिलसम्पत्' इति।
तस्मिन् काले पञ्चविंशतिसहस्रपरिमितैर्म्लेच्छभटैः सुरक्षितमासीत्तद्दुर्गम्। हम्बीररावस्य पृतनायां तु केवलं नवसहस्रमितशूरा एव विद्यन्ते स्म। 'नवसहस्रमात्रैरेतैर्भटैस्तावतीं वाहिनीमभिभूय दुर्गग्रहणमसम्भाव्यमेव, भवेच्च महान् सैन्यक्षयः' इति पर्यालोच्य तेन सेनान्यैका कूटनीतिरासृज्यत। स्वसैन्यं द्विधा विभज्य तेन 'अचिरादेव महाराष्ट्रचमूराक्रमिष्यति' इत्येका किंवदन्ती सर्वतः प्रथिता। तामुपश्रुत्य खानो महतीं समरसज्जामतनुत। अथ हम्बीररावोऽपराह्णे केवलं द्विसहस्रमितभटान् दुर्गमाक्रमितुं प्राहिणोत्। तावतीमल्पीयासीं विपक्षाणां सङ्ख्यां विलोक्य विस्मयाविष्टो जज्ञे स यवनः।
'प्रविशन्तु तावदमी विपक्षा दुर्गान्तर्भागम्, ततस्तानखिलान् कृतान्तातिथीन् करोमि। न कोऽपि महाराष्ट्रभटो जीवन् बहिर्गच्छेत्' इति दुराशया तेनाज्ञाप्यत—'अपाव्रियन्तां दुर्गकपाटानि' इति। परं बहिरेव कृतावासास्ते महाराष्ट्रवीराः शरनिकरान् पाषाणखण्डांश्च ववर्षुः। अन्योपायशून्यः खानः स्ववाहिनीमधिष्ठाय सङ्ग्रामाय दुर्गाद्बहिर्निर्जगाम। तं तथाभियन्तं विलोक्य ते सुभटाः कपटपलायनं चक्रिरे। मतिभ्रष्टस्तु स यवनस्तानन्वधावत्।
सह्याद्रिप्रस्थेषु निगूढमार्गान् सम्यक् प्रजानन्तो विविक्तमतयस्ते भटास्तं म्लेच्छं बहुदूरमपनिन्युः। अन्ते च परिश्रान्तवाहनः खानस्तेषां वधवाञ्छां परित्यज्य दुर्गमेव प्रत्याससाद। परं यावदसौ प्रत्यावर्तत, तावदेव तद्दुर्गं महाराष्ट्राधीनमभूत्। यतो हि तदन्तरे हम्बीररावः सप्तसहस्रपरिमितैर्महाराष्ट्रवीरैः सार्धमभिद्रुत्य, दुर्गं स्वायत्तीकृत्य, समग्रां च तत्रत्यां सम्पत्तिं स्वराज्यायोपाहरत्॥