You are here: Home » stories » 243
242 
 244

तितिक्षावैभवम्

प्रशमितकोपानलो वैराग्यनिधिः कश्चन यतिसार्वभौमः पुरा किल भूतलमलञ्चकार। असहमानास्तस्य तत्कीर्तिप्रतानम्, असूयादुष्टचेतसः केचिद् दुर्जनास्तदीयोपशल्यतोरणे जीर्णोपानद्भिर्ग्रथितां कांचिद्दामलतिकामलम्बयन्। ‘बहिर्निर्गच्छतोऽमुष्य वदनमण्डले यदीयमभिलम्बिनी पादुकास्रक् सङ्घट्टेत, तदा तं लज्जितं विलोक्य सोपहासं प्रहसितुं प्रभवेम’ इत्येवामीषां दुर्मतीनां सङ्कल्प आसीत्।

तिरोभूय सदनपार्श्वरुहस्य कस्यचन शाखिनः पृष्ठतस्ते पापचेतसः कौतुकाविष्टा दिदृक्षवो व्यतिष्ठन्त। अथाचिरादेव तस्मान्निकेतनान्निरीयाय स योगिवर्यः। निर्गतमात्रस्यैवामुष्य पुरत एव लम्बमाना सा चर्मपादुकास्रग् लोचनगोचरीबभूव। अविकृतचित्तोऽसौ धीरस्तु प्रत्युतानुपमभक्तिभरितः प्रत्येकमुपानहं स्वपाणिभ्यामादायादाय निजनयनयोरर्पयामास। तदिदं तदीयमनवद्यं चेष्टितं निशाम्य पाषाणायमाना अमी दुर्बुद्धयः स्तम्भं ययुः। ‘यत्खल्वस्माभिराशङ्कितं, तद्विपरीतमत्र सञ्जातमहो’ इति मन्यमानास्ते सदनपुरस्तादागत्यैनमप्राक्षुः— “भोः! किमर्थमिमाः पादरक्षा नयनयोर्निधीयन्ते त्वया ?” इति।

सस्मितं प्रत्युवाच स महात्मा— “कथमिदं मया नानुष्ठेयम् ? केन वा निबद्धेयं स्रगत्र तोरणे इति किं वित्थ यूयम् ?” इति।

तदा तेषामन्यतमो व्रीडावनतवदनः शनकैर्जगाद— “अस्माभिरेवेयं दामलतिका तोरणे न्यबध्यत” इति।

अथ मुनिराह— “महान्तमनुग्रहमकार्ष्ट यूयम्। श्रूयते हि भागवतोत्तमानां पादत्राणेषु भगवद्भक्तानां पावनतराः पादरजःकणाः सक्ता भवन्तीति। ते च रजोलेशा अपवर्गश्रियः साधनभूताः। अद्य तु युष्मत्साहाय्येनैव ते मया सुलभतयाधिगताः। तदर्थमनेकशः कृतज्ञोऽस्मि युष्माकम्” इति।

एतदमृतोपमं वचो निशम्य लज्जाभरमन्थरशिरसस्ते दुर्मतयः स्वदुर्विलसितस्य निमित्तं तं तितिक्षासागरं क्षमामेवाभिक्षन्त।

वेङ्कटनाथ इत्येवासीन्नामधेयममुष्य क्षमावारिधेर्महात्मनः। स एव श्रुतिशिरोविदुषां मूर्धन्यः ‘श्रीवेदान्तदेशिक’ इति नाम्ना भुवि विश्रुतो बभूव। दाक्षिणात्ये श्रीरङ्गाख्ये महादिव्यदेशे फणिपतिभोगे शयानस्य भगवतः श्रीरङ्गराजस्य दिव्यपादुके एवाधिकृत्य तेनैव सूरिवरेण यामैकमात्रेण सहस्रश्लोकात्मकं महास्तोत्रमकारि।

242 
 244
Search
stories/243.txt · Last modified: 2026/07/31 05:36