रसनादास्यनिषेधः
प्राहैषीत्त्किलामुष्मै गोविन्दरानडेमहोदयाय कश्चन सुहृत्कतिपयान्यतिपक्वानि सहकारफलानि। प्रक्षाल्य तान्यमूनि रसालफलानि विशस्य च खण्डशः पत्युः पुरस्तान्न्यदधात्तस्य सहधर्मचारिणी रमाबायी। आस्वाद्य च तत्र केवलं पेशीद्वयं बभाषे सः - “अहो माधुर्यमेषाम्! अतितरां स्वादिष्ठान्यमूनि। त्वमप्यश्नीहि, विश्राणय च परिचरेभ्यः” इति।
पप्रच्छैनं पत्नी - “सुमधुराणि चेदिमानि, तर्हि कस्मान्नाधिकमश्नासि त्वम्? कच्चित्ते निरामयं शरीरम्?” इति।
“अनामयमेव मे वपुः। यतश्चामूनि सुमधुराणि, तस्मादेव नाधिकमश्नामि” इति स प्रत्यवदत्।
“अविदितो मया ते गूढाशयः” इत्यब्रवीत्सा।
ततश्चाचचक्षे सः - “बाल्यकाले मुम्बापुर्यां विद्याभ्यासं कुर्वाणस्य मे काचन सीमन्तिनी प्रातिवेश्यासीत्। पुरा सा बहुधनसमृद्धाभूत्, कालक्रमेण तु परमां दुर्गतिमापन्ना। सा किलासकृदभ्यधात् - 'प्राक्तने काले ममालये बहुविधानि मिष्टान्नानि विविधानि च व्यञ्जनानि भोजनायाकल्प्यन्त। साम्प्रतं तु विपरीता सा स्थितिः। तथापि मे रसना तादृशमेव स्वादु भोजनमभिलषति। मे सुतस्तु शुष्कापूपखादनेनापि परमां तृप्तिमेति, परञ्च मे जिह्वा मां सरसस्वादुभोजननिर्माणे बलात्प्रवर्तयति' इति। तस्या इत्थं विलपन्त्या वचांस्यसकृदाकर्ण्य मया तदानीमेवेदं निश्चितम् - यद्धि रसनायै रोचते तदल्पप्रमाणेनैव निषेवितव्यम्, न जातु रसनादास्यमभ्युपगन्तव्यमिति। यदि हि रसनादास्यं प्रसज्येत, तर्हि यथैतया सीमन्तिन्या दुःखमन्वभावि, तथैव मयापि तत्क्लेशजालमनुभोक्तव्यं स्यात्। 'एकः स्वादु न भुञ्जीत' इत्यार्षमनुशासनम्। तस्मात्संविभज्य भक्षणादेव श्रेयः” इति।
भर्तुस्तमाशयमवगत्य सा सहधर्मचारिणी इतरेभ्यश्चूतपेशीर्वितरितुं ततो निरगात्।