You are here: Home » stories » 282
281 
 283

विपद्यपि भगवदनुग्रहबुद्धिः

वङ्गदेशावतंसो लोकनायकप्रकाण्डोऽश्विनीकुमारदत्ताभिधः कश्चिज्जज्ञे। तस्य च विद्यागुरुरासीन्महाभागो राजनारायणबसुनामा। वयःपरिणामावस्थायां च स महाशयः पक्षाघातरोगोपसृष्टतया स्वकीयैकहस्तकर्मण्यतां जहौ।

अथ कदाचिद्गदानुविद्धं गुरुं दिदृक्षुः शिष्योऽयं तदावासमुपजगाम। अन्तेवासिनं समभ्यागतं वीक्ष्य सुतरां प्रमुमुदे स देशिकसत्तमः। शय्यायाश्च कथञ्चिदुत्थायैकेनैव बाहुना तं गाढमुपगुह्यानामयं पप्रच्छ। ततश्चोपनिषद्गीतादितत्त्वार्थमधिकृत्य महापुरुषसूक्तिजालमवलम्ब्य च मुहूर्तमेकं यावत्तयोरनल्पो वाग्व्यवहारः प्रावर्तत। तस्मिंश्च समये स्वात्मानुभूतं सर्वमपि ज्ञानतत्त्वं महता समुल्लासेन व्याजहार स गुरुः। तद्वदनारविन्दे च कोऽप्यनिर्वचनीयो ब्रह्मानन्दः समुल्ललास।

अथ प्रतस्थिषुरन्तेवासी तं पप्रच्छ - “अहो गुरुदेव! पक्षाघातरोगोपसृष्टोऽसीति कर्णकठोरा वार्ता मन्मानसं भृशमपीडयत्। तदर्थमेव त्वामवलोकितुमिहागतोऽस्मि। परञ्चात्र ते मुखकमले चेष्टितेषु वा विषादस्य लवोऽपि न विभाव्यते। मासत्रयादारभ्य शयनीयमेवाश्रितस्त्वं किं मनागपि खेदं नानुभवसि?” इति।

“वत्स! विषादः किमर्थं वा मयानुभूयेत? परमेश्वरस्यानुकम्पया कियन्तीः शरदोऽहं विपुलं सौख्यमन्वभूवम्। निरवधिः परमानन्दश्च मयास्वादितः। साम्प्रतं स एव करुणावरुणालयो मां शय्याशरणमकार्षीत्। यतो हि तेनैवापारं सुखं वितीर्णम्, अत इदानीमिदं स्तोकमस्वास्थ्यमपि तेनैवोपनतम्। स्तोकमस्वास्थ्यं तेन प्रदत्तमिति हेतोस्तस्य निरवधिसुखप्रदातृत्वं किं मया विस्मर्येत? वस्तुत इदमस्वास्थ्यमपि तदीयानुग्रहेणैव समधिगतम्। प्राक्तने काले तेन जगन्नियन्त्रा यः सुखाम्बुधिः प्रादायि, तमेवानुचिन्तयन्नहमव्याहतेनानन्देन प्राणान्धारयामि” इत्यनुद्विग्नचित्तो व्याजहार स महासत्त्वः।

281 
 283
Search
stories/282.txt · Last modified: 2026/09/04 23:00