अप्रतिमाचार्यनिष्ठा
पारिभौतिकविद्यायां निष्णातः पाकिस्थानदेशीयोऽब्दुस्सलामाभिधो विपश्चिदेकोनाशीत्यधिकैकोनविंशतिशततमे (१९७९) ख्रीस्ताब्दे नोबेलाख्यां जगद्विश्रुतां प्रशस्तिमवाप। तत्सम्भावनाधिगमाव्यवहितोत्तरमेवासौ 'क्व नु खलु निवसति भारतीयाभिजनोऽनिलगाङ्गुलीनामा मे विद्यागुरुः, तदीयावासवृत्तान्तो मह्यं प्रदीयताम्' इति भारतशासनाय व्यजिज्ञपत्। तत्कालमविदिततदुदन्तमपि प्रशासनतन्त्रं परिवत्सरद्वयापगमे कथञ्चित्तन्निवासस्थानमुपलभ्य तस्मै प्रत्यपादयत्।
तदाकर्ण्यैवाविलम्बं भारतमुपागत्य कोलकात्तामहानगर्यां निवसतो गाङ्गुलीमहाशयस्य निवेशनमाससाद। तस्मिन्नवसरे वार्धक्यविह्वलाङ्गः स गुरुः शय्यातले शिश्ये। गुरुं तं दण्डवत्प्रणम्य, नोबेल्सम्भावनालाञ्छितं सुवर्णपदकं तदीये कण्ठदेशे विन्यस्य, बाष्पगद्गदया गिरा स इत्थमवोचत्—“आचार्यप्रवर! त्वयैवाधिगन्तव्येयं जगत्प्रथिता सम्भावना न मया” इति।
प्राग्लाहोरनगरे गणितशास्त्रमध्यापयद्गाङ्गुलीमहोदयः। तस्मादेवामुनैषा गणितविद्योपार्जिता। अङ्कविद्यायां निरतिशयानुरक्तिं वहन् स गुरुः स्वामेव विद्यानुरागितां तस्मिन् शिष्येऽप्यजीजनत्।
स्वाध्ययनकालमनुस्मरन्, गुरुचरणोपदिष्टमपूर्वमध्यापनकौशलं च चेतसि भावयन् स इत्थं जगाद—“अद्य या मयोन्नतिरासादिता, तत्र त्वमेवासाधारणं कारणम्। पुरा तथा हि त्वयाहमङ्कविद्यां ग्राहितो येनाहमस्यां विद्यायां नितान्तमनुरक्तोऽभवम्। पारिभौतिकविद्याक्षेत्रे या मे प्रगती राराज्यते, तस्या आधारस्त्वदीयं गणितबोधनमेव। मदीयोन्नतिशिखरारोहणस्य सोपानपङ्क्तिस्त्वमेवासि” इति।
इत्थं भाषमाणस्यास्य नेत्रे बाष्पवारिभिः परिपूर्णे बभूवतुः। आचार्यस्यापि नयनाभ्यामानन्दाश्रुधाराः सुस्रुवुः।
नोबेलाख्यां जगत्प्रथितां प्रशस्तिमासाद्यापि, भारतस्य कस्मिंश्चित्कोणे विविक्ते निवसन्तं स्वगुरुं मृगयित्वा तच्चरणयोरवनतस्यास्य सलाममहाभागस्य गुरुभक्तिर्नूनमनुपमैवेति किमु वक्तव्यम्!