सन्तोषामृततृप्तस्य कृषीवलस्य चरितम्
दिदृक्षया स्वराष्ट्रस्थितिं गूढवेषौ परिबभ्रमतुर्महीपतिस्तस्य सचिवश्च। तत्रान्तरे कश्चित् कृषिकर्मनिरतो जानपदोऽमुष्य नृपस्य दृष्टिपथमाससाद। पप्रच्छ चैनं सचिवः— “भद्र! कियती ते प्रत्यहं धनसम्पत् सिध्यति?” इति।
सोऽब्रवीत्— “क्षेत्राजीवोऽहमस्मि। शुश्रूषैवाविरतं क्रियते मयास्याः धात्र्याः। न हि भृतिभुजामिव कश्चिन्नियतोऽर्थागमो मे दिने दिने।”
“किंस्वित् त्वयात्र केदारे प्ररोह्यते?”
“व्रीहयः शाकानि च बाहुल्येनोत्पाद्यन्ते मया। परिवत्सरे द्विरवचीयन्ते शालयः। शाकाद्युत्पादनात्तु तस्मिंस्तस्मिन्नृतौ काचिदर्थमात्रा लभ्यते।”
“किमु त्वमेकाकी प्रयतसेऽस्मिन् कृषिकर्मणि?”
“नैवम्। आकुटुम्बं सर्वेऽपि मे परिजना बहुविधैरुपायैर्मत्कर्मणि साहाय्यं कुर्वते। गावो महिषादयश्च, तथा क्षितिपवनमेघवृक्षादयोऽपि मामनुगृह्णन्ति।”
“कच्चित् ते निर्वृतिं जनयत्ययं क्षेत्राजीवः…”
“परमां निर्वृतिमुपगतोऽस्मि निजजीवनेन। क्षेत्राजीवाल्लब्धेनैव वित्तेन सोदर्याणां सन्ततीनां चोद्वाहा मया सम्पादिताः। विपन्नानामुद्धरणाय यते। इष्टापूर्तानि च यथामत्यनुतिष्ठामि। धेनुमहिषाजाकुक्कुटादीनां च रक्षणं क्रियते। पादपानपि यथोत्साहं पोषयामि। शक्त्यनुसारं विश्राणयामि चार्थिभ्यः। सर्वमिदं न केवलं मम, प्रत्युत सर्वस्यापि मे कुटुम्बस्य नितान्तं मोदाय कल्पते।”
“साधु! कियदधीतं त्वया?”
“चतुर्थीं कक्ष्यामेवावधिं कृत्वा मयाधीतम्। न हि प्रभूतं वसु चेल्लभ्येत तदैव जन्मसाफल्यमिति मे मतिः। सन्तोषाय कल्पमाना विषयास्तु विलक्षणा एव।”
“अहो! परमोत्कृष्टानि जीवनतत्त्वानि त्वयात्मसात्कृतानि। कीदृशं खलु भवेत् सार्थकं जीवितमिति सुविदितं त्वये”त्येवं प्रशशंस तं नरपतिः।
ततश्चामुष्मात् प्रदेशात् प्रतस्थतुस्तौ नृपसचिवौ।