You are here: Home » stories » 285
284 
 286

अहङ्कारो हि सर्वनाशनिदानम्

काम्यकारण्यवासक्लेशं सोढुं विवत्सून् पाण्डवान् दिदृक्षुर्मैत्रेयनामा मुनिपुङ्गवः कदाचिदाजगाम। तेषां चातीव शोचनीयां दशां विलोक्य नितरां दूनमनाः स गाङ्गेयभारद्वाजादिमहासत्त्वानां समक्षमपि तादृगधर्म्यं कर्म समजनीति विचिन्त्य परं विषादमापेदे।

अथ हस्तिनापुरं गत्वा धृतराष्ट्राधिष्ठितां राजसभामवतीर्णः, सम्यगनुष्ठितातिथ्यसत्कारः स मुनिस्तं नृपतिमेवमवोचत्— “अहो राजन्, सुदारुणो ह्ययं प्रमादः समजायत, यं त्वं प्रयत्नादपाकुर्याः। ईर्ष्यादूषितो व्यवहारो नैव ते रोचेत। पाण्डवैः सार्धं सप्रश्रयं वर्तिषीष्ठाः। कुलवृद्धेन त्वया स्वसुतो दुर्योधनो धर्मतस्त्वनुशासनीयः। जह्येनं सुतव्यामोहम्। यद्यपि ते बाह्यचक्षुर्न विद्यते, तथाप्यन्तःप्रज्ञा तु सम्यग्जागर्त्येव खलु? तस्मादन्तरात्मनः शुचिं रवमाकर्णय।”

श्रुत्वैतदमृष्यमाणो दुर्योधनस्तीव्रं चुक्रोध। तदीयं क्रोधावेगमुपलक्ष्य मुनिस्तं न्यगादीत्— “हे दुर्योधन, लोककल्याणं हृदि निधाय त्वं प्रवर्तेथाः। अपरिमेयं हि पाण्डुपुत्राणां भुजबलम्। तैः समं विद्वेषस्तेऽनर्थाय, हन्त, समूलघातनायैव वा प्रभवेत्। तदलं वैरेण, सन्धौ च ते मनो रमताम्।”

तद्वचः प्रत्युत्तरीकुर्वन् गर्वान्धो दुर्योधनः पादाङ्गुष्ठेन क्षितितलमवलिखन्, करतलेन स्वमूरुमास्फालयन् विकृतमट्टं जहास। तेनास्यौद्धत्येन भृशं सन्तप्तः प्रकुपितश्च महर्षिस्तं शशाप— “अरे मूढ, मय्यवज्ञां कुर्वता त्वया यदयं दुरहङ्कारः प्रदर्शितः, तस्यास्य दुर्विलसितस्य घोरं फलं नूनमवाप्स्यसि। अचिरादेव सम्पत्स्यमाने दारुणे महाहवे यमूरुं त्वमद्यास्फालितवान्, तस्यैव भङ्गः सञ्जनिष्यते, तेनैव च ते प्राणान्तिको वधो भविता” इति।

एवमतिदारुणे शापे समुदीरितेऽपि, मदान्धः स कौरवस्तस्मिन् मुनिवाक्ये न्यक्कारमेवाकार्षीत्। तत्फलस्वरूपेण च कुरुक्षेत्रसमराङ्गणे वृकोदराभिघातोत्पाटितोरुदण्डः स पञ्चतामगमत्।

284 
 286
Search
stories/285.txt · Last modified: 2026/09/04 23:04