You are here: Home » stories » 301
You are not allowed to perform this action
← 300 
 302 →

श्रममहिमोद्बोधनम्

गूढवेषमास्थाय स्वयमेवाश्वशकटं चोदयन्वसुधाधिपः किल कदाचिद्देशाटनं चकार। कञ्चन ग्राममुपसर्पतोऽमुष्य रथचक्रान्नेमिर्विश्लिष्य पृथग्बभूव।

नेमिं पुनर्घटयितुं कर्मारमन्वेषमाणो नृपः पल्लिकायां बभ्राम। आसादितश्च कश्चनायोकारः। स तु न्यगादीत् — “एकादश्यद्य, विश्रामदिनमिदम्। तस्मान्नाहं किमपि कर्मारभे” इति।

“दवीयांसमध्वानं तीर्त्वागतोऽस्मि। नेमिसन्धानमन्तरेण शकटस्याग्रे नयनं दुःशकम्। तस्मादनुगृह्यतां साहाय्यदानेन” इति पार्थिवो ययाचे।

तदीयां प्रार्थनां पुरस्कुर्वन्कर्मारः प्रत्युवाच — “सज्जोऽस्मि ते साहाय्यमाचरितुम्। परन्त्वद्य मे सहायको न सन्निहितः। यदि त्वं भस्त्रादण्डं सञ्चालयन्मारुतं धमेस्तर्हि सिद्ध्येदिदं कर्म” इति।

बाढमित्युक्त्वा महीपतिर्भस्त्रादण्डसञ्चालनमुपचक्रमे। प्रागनुपभुक्तश्रमकर्मणोऽमुष्य कोमलाङ्गेभ्यः प्रसुस्रुवुः स्वेदजलधाराः। तथापि निर्बन्धमपरित्यजन्कथञ्चित्कृच्छ्रेणायोकाराय साहाय्यं विदधे।

निष्पन्ने च कर्मणि, रथाङ्गे च शकटे नियोजिते, “कियन्मूल्यमत्र ते प्रदेयम्?” इति पप्रच्छ राजा। “षड्रजतमुद्राः” इति व्याजहार लोहकारः।

राज्ञा तु षट्सुवर्णमुद्राः प्रदत्ताः। ता दृष्ट्वा विस्मयस्तिमितलोचनः कर्मारः — “आर्य, षड्रजतमुद्रा एव देया इति मया गदितम्। सम्यङ्नाश्रौषीरिति मन्ये। तस्मात्सुवर्णमुद्राः प्रादाः” इति वदंस्ताः प्रतिदातुमुपचक्रमे।

तदा तासां प्रतिग्रहं प्रत्याचक्षाणो राजा जगाद — “सञ्चिन्त्यैवेमाः सुवर्णमुद्राः प्रत्ता मया। जीवनेऽस्मिन्नैदम्प्राथम्येन श्रममकार्षम्, अन्वभूवं च तज्जनितमनिर्वचनीयमानन्दम्। श्रमस्य महिमानं मामवबोधितवते तुभ्यं गुरुदक्षिणारूपेणैतद्धनं विश्राणितम्” इति।

इत्युदीर्य रथमारुह्य जवेन तस्माद्देशात्प्रतस्थे वसुधाधिपः। विस्मयविस्फारितेक्षणः कर्मारस्तु तां दिशमनिमेषं पश्यंश्चित्रार्पित इव तस्थौ।

← 300 
 302 →
Search
stories/301.txt · Last modified: 2026/11/10 10:22