You are here: Home » stories » 335
← 334 
 336 →

अप्रतिमविक्रमसाध्या हि धर्मरक्षा

अन्वशात्पुरा श्रावस्तीमण्डलमुद्दामभुजस्तम्भो राजलक्ष्मीसनाथः सुहेलदेवरायाभिधः क्षितिपतिः । प्रजापरिपालनैकव्रतोऽसौ समरसीम्नि जिष्णुर्धर्मरक्षायां च बद्धपरिकरो बभूव । अल्पीयस्यपि गणनया तदीया वाहिनी निरुपमशौर्यगरिम्णा जगत्यनन्यसामान्या विरराज । अथ कदाचित्सोमनाथदेवायतनमुन्मूल्य तदीयां च विभवसम्पदमात्मसात्कृत्वा मोहम्मदगजनीत्यभिधस्तुरुष्कपतिः स्वकीयविषयं न्यवर्तिष्ट । अपरितुष्टस्तु तावतैव सोमनाथोपमर्देन दुरन्तलोलुपस्तदीयः स्वस्रीयः सय्यदसालारनामोत्तरभारतभुवमभिजिघृक्षयाक्रान्तुं प्रतस्थे ।

अथ तस्मिञ्छ्रावस्तीविषये दिगन्तविश्रान्तकीर्तिर्बालार्काश्रमो नाम तपोवनभूषणं समलक्ष्यत । अविच्छिन्नप्रवाहं तत्र निखिलशास्त्राध्यापनं गभीरतत्त्वमीमांसा चाहर्निशं सुधीगोष्ठीषु प्रावर्तेताम् । अध्यासते स्म च तमाश्रमं तपोनिष्ठामेदुराः साधकाः, ये खल्वैकाग्र्येण सिद्धिवर्त्मान्वतिष्ठन् । अविरतप्रसृतं चान्नवस्त्रादिवितरणं तत्रातिथिसत्कारलक्ष्मीं समेधयामास ।

ग्रामनगराणि देवायतनानि च समूलघातमुत्सादयन्नसौ क्रूरचेष्टः सय्यदसालारो बालार्काश्रमाभिमुखं प्राचालीत् । चारमुखेनेदमुपलभ्य वृत्तं बालार्काश्रमध्वंसो निवार्य एवेति दृढसङ्कल्पो राजा सुहेलदेवरायः स्वचमूपरिवृतोऽभिनिर्ययौ । अथ निकषा बालार्काश्रममुभयोरपि सेनयोस्तुमुलः सम्परायः समारेभे ।

साहाय्यकायामुष्य सय्यदसालारस्य बहराइचविषयपतिः सैफुद्दीनः, महोबानाथो मीरहसनः, लखनऊनगरपतिर्मलिकादमः, वाराणसीस्थो मलिकफेजश्चेत्यादयोऽपि स्वीयाः पृतनाः प्राहिण्वन् । ततश्च मिलितसहकारिबलौघा तस्य सैन्यशक्तिर्निरवधिपारावारप्रख्या बभूव ।

आलोक्यापि तदुद्दामं द्विषद्बलं नाकम्पत मनागपि धीरचेताः सुहेलदेवरायः, प्रत्युत स्वां चमूमामन्त्र्यैवमवादीत् — “मा भैष्ट मनागपि विपुलमिदं प्रत्यर्थिबलमित्याकलय्य । भूयांसो हि निसर्गेण सारमेयाः, विरलसङ्ख्यास्तु मृगेन्द्राः; तथापि सम्भूय सकृदपि यदि केसरिणो गर्जेयुः, तत्क्षणमेव भयाकुलिताः सर्वेऽपि ते कौलेयका दिशो विद्रवेयुः । सुनिशितधाराः खल्वस्माकं निस्त्रिंशाः । कीदृशशौर्यशालिनः श्रावस्तीजनपदीया योधवीरा इत्यमी शत्रवः सम्यग्विजानन्तु । तदुद्दामविक्रमेण यूयं समरे प्रहरत । अरातिनायकस्यैव जीवग्राहमभिग्रहणे निकृन्तने वा यत्नमातनुध्वम् । निपातिते हि बद्धे वा सेनापतौ हतवीर्या विपक्षाणां चमूर्भवित्री । अतोऽस्माकं समग्रोऽप्युद्यमः सय्यदसालारस्य ग्रहणे संहारे वा पर्यवस्यतु” इति ।

गगनतलस्पर्शिना सिंहनादेन तद्वचनं प्रत्यनन्दन्वीरसैनिकाः, तदनन्तरं च द्विषदुच्छित्तये महता रभसेन चमूः प्रातिष्ठत । अग्रणीर्भूत्वा वाहिनीमुखे विचरन्स राजा सुहेलदेवरायो दूरादेवामुं सय्यदसालारमद्राक्षीत्, उच्चैश्चाभाषत — “एष एव सय्यदसालारोऽस्माकमेकलक्ष्यम् । अनुबध्नीत माम् । प्रतिरोधं च कुर्वतोऽमीनरातिभटान्कदलीलावं लूत्वा पुरतोऽभिद्रवत” इति ।

प्रचण्डार्णवकल्लोल इवाग्रतः प्रासर्पत्सुहेलदेवरायस्य वरूथिनी । ये केचन पुरस्तात्प्रत्यवतिष्ठन्त वैरिसेनायाः, ते सर्वेऽपि निरनुक्रोशं न्यसूद्यन्त । चुकम्पे तदा सय्यदसालारस्य हृदयम् । जाज्वल्यमानं चन्द्रहासमाविध्यन्सुहेलदेवरायः पुरस्तादभ्यपतत्, उभयोरपि च तयोरुग्रो द्वन्द्वसम्परायः प्रावर्तिष्ट । असहमानस्तदीयानशनिकल्पान्प्रहारान्सय्यदसालारो गलितसत्त्वः शिथिलीबभूव । पश्यत्स्वेव च सर्वसैनिकेषु सुहेलदेवरायस्य करवालोऽमुष्य सय्यदसालारस्य शिरश्चकर्त । उदभूत्तदा यवनचम्वामार्तक्रन्दितम्, प्रासरच्च श्रावस्तीसैन्ये प्रमोदकल्लोलपरम्परा ।

चतुस्त्रिंशदधिके सहस्रतमे वत्सर इदमाश्चर्यं वृत्तं समपद्यत । अद्यापि च पुलकाञ्चिततनवः श्रावस्तीपौराः सुहेलदेवरायस्य यशोगाथां सगद्गदं गायन्ति ।

← 334 
 336 →
Search
stories/335.txt · Last modified: 2026/10/24 12:04