अनिर्वेदः श्रियः मूलम्
आसीत् कश्चिन्नाविकः, यं सूनुस्तदीयोऽनुययौ। तावुभावपि सिन्धौ तरण्यामासीनौ पुरस्तात्तरीं प्रणेतुमैहेताम्। निजभुजबलोपपन्नं द्वाभ्यामपि क्षेपणी प्रणुद्यते स्म, तथापि नौरग्रतो नैव ससर्प। प्रचण्डा ऊर्मयो रभसेनापत्य पोतं प्रजह्रुः, तस्माच्च सा नौः पश्चादेव प्रतिचस्कन्द।
अथ श्रमातुरः सूनुः क्षेपणीचालनाद्विरम्य पितरं व्याजहार – “तात! हन्त किमिदं सङ्कटम्! अत्यर्थं ममाङ्गानि खिद्यन्ते। भूयिष्ठेऽपि प्रयासे कृते नैषा प्लवा पुरो याति।”
“अद्योर्मयोऽतिमात्रं प्रचण्डाः, अत इत्थं सम्पद्यते” इति क्षेपणीं प्रणुदन्नेव जनकः प्रत्युवाच।
“यद्येवम्, तर्ह्यद्य पुरस्ताद्गमनं न शक्यमिति मे मतिः। अद्यैव गृहान् प्रतिनिवर्तामहै” इत्यवदत्सूनुः।
तच्छ्रुत्वा जनको दविष्ठामेकां तरीं निर्दिशन्नवोचत् – “वत्स! अदः पश्य दवीयसि। कश्चिदुडुपस्तत्र निस्तरङ्गेऽम्भसि सुखं प्लवते।”
तमुडुपं वीक्षमाणः सूनुः प्रत्यवदत् – “सत्यम्। ईषदपि कम्पो नास्मिन् विलोक्यते।”
“बाढम्। अधुना स तादृशीमवस्थां गत इति तु तथ्यमेव। किन्तु प्रागेतस्मात् तेनानेनाप्यस्मत्तरीवदूर्भिताडनानि सेहिरे,” इत्याह पिता। सूनुराश्चर्यचकितो जनकस्य वदनं ददर्श। जनकस्तु पुनरभिदधौ – “वत्स! यावद्यावदम्बुधेर्गाम्भीर्यं वर्धते, तावत्तावदूर्मिसङ्घट्टोऽपि क्षीयते। अतो गभीरस्थलाधिगमं यावदुद्योगो नैव हातव्यः। ये खलु शान्तिपदवीमधिरूढाः, तैः सर्वैः सहस्रशः प्रयत्ना विहिताः। तेषां चेदं वैशिष्ट्यं यत्ते जातुचिदपि स्वोद्योगान्नापजग्मुः। श्रमबाहुल्यमिति मत्वा यस्तुद्योगं परित्यजेत्, स जातु पुरो व्रजेन्न च स्थिरां स्थितिमाप्नुयात्। पुत्रक! या नीतिरिह प्लवे प्रवर्तते, सैव मानुषे जीवनेऽपि। यः कोऽपि यत्नकरणाद् बिभीयात्, स न कदाचिदग्रेसरः स्यात्, न प्रगतिं विन्देत, न च सुस्थितिमश्नुवीत। तस्मादुद्योगः कदापि न परित्याज्यः।”
एतदाकर्ण्य सूनुरप्रत्युक्त्वा भूयोऽपि क्षेपणीचालने मन आदधे।