कस्य कृतेऽयं श्लाघाडम्बरः?
यदा किल कवीन्द्रो रवीन्द्रनाथठक्कुरो नोबेल्पुरस्कारेण सममानि, तदानीन्तनीमिमां कथां कथयन्ति मनीषिणः। तस्य गीताञ्जलिनाम्नः काव्यस्य कृते साहित्यविषयिणीं नोबेल्प्रशस्तिमसावधिजग्मिवानिति पुरस्कारवितरणसमितिस्तारसन्देशेन तमबोधयत्।
अमुमुदन्तमाकर्ण्य कवीन्द्रस्तुतोष हृदि, परं नान्येभ्यस्तमाख्यातुं किमपि औत्सुक्यं प्राकटयत्। अथ कतिपयैरेव दिनैर्वार्तापत्रिकासु सर्वत्रायं वृत्तान्तो व्यज्ञायि। यतः प्रथमतः केनचिद् भारतीयेनेयमुत्तमा प्रशस्तिरधिगतेति वदन्त्यो वार्तापत्रिकास्तं भृशं प्रशशंसुः।
तेषु दिवसेषु रवीन्द्रनाथः शान्तिनिकेतने प्रत्यवसत्। वार्तापत्रिकामुखेन प्रवृत्तिमिमां विदित्वा पञ्चशताधिका जनास्तत्र समाजग्मुः, प्रावर्तत च महती श्लाघागोष्ठी। तस्यां परिषदि भूरिभिर्मधुरभक्ष्याणि व्यतरिषत। ‘वङ्गभूमिपुङ्गवः’, ‘साहित्यनभोध्रुवतारा’, ‘भारताम्बाकीर्तिपताका’ इत्यादिभिर्बहुभिर्विशेषणैः स भृशमस्तूयत, जयनिनादाश्चापि मुहुर्मुहुरुदघोषिषत। कवीन्द्रस्तु सर्वमेतन्मन्दस्मितपुरःसरं प्रत्यगृह्णात्, न चातिहर्षं न वा वैमुख्यं किञ्चिदाविश्चकार। सर्वेषु श्लाघकेषु प्रतिगतेषु कश्चित्तस्याप्तस्तमुपेत्य पप्रच्छ - “महाभाग! इयन्तो जनाः समेत्य त्वामभिनन्दन। भूयसी च तैस्तव श्लाघा व्यधायि। सर्वेऽपि परमां मुदमुपगताः। भवांस्तु स्थितधीरिवाचेष्टत। तेषामागमनं पुरस्कृत्य शान्तिनिकेतने विशेषभोज्योत्सवः कल्पनीय आसीत्। अभ्यागतानां विशिष्टमातिथ्यं च विधेयमासीत्…” इति।
ततो रवीन्द्रनाथः प्रशान्तया गिरा जगाद - “गीताञ्जलिनामा मम प्रबन्धस्तु बहुभ्यः संवत्सरेभ्यः प्रागेव प्रकाशितोऽभूत्। अद्येहागतेषु न कोऽपि तं ग्रन्थमादृत्यापठत्। तदीयं वैशिष्ट्यं च केनापि नाधिगतम्। ईदृशीं कृतिं पठित्वा तद्गतान् गुणान् अधिगम्य तान् स्वीकुर्यामेत्यपि न कस्यचिच्छ्रद्धा विद्यते। केवलं ‘नोबेल्प्रशस्तिरनेनाधिगता’ इति वार्तां निशम्यैव ते मामभिनन्दितुमुपागमन्। वस्तुतस्तु तेषां श्लाघनं कृतेः किम्? आहोस्विद् अथ कर्तुः? नैतदुभयमपि। इदं हि नोबेल्पुरस्कारायैव केवलमभिनन्दनम्। यच्च श्लाघनं न कृतिं न वा तत्कर्तारमभिलक्ष्य प्रवर्तेत, तेन कीदृशी नाम मनसस्तुष्टिराप्येत? केवलं लोकव्यवहारमनुरुन्धानोऽहं तस्मिन् अभिनन्दनावसरे प्रसन्नमुखोऽलक्ष्ये, तावन्मात्रमेव” इति।