ऐतरेयप्रसूः
आसीन्मण्डूकसूनोर्मुनेर्धर्मचारिणीतरा नाम। तयोः सूनुरजायत महीदास इति प्रथिताभिधः, स खलु द्वादशार्णकं मन्त्रं सततमुच्चरन् लौकिकेष्वास्पृहां कर्मसु न बबन्ध।
तेनास्य वैमुख्येनोद्विग्नमनाः स तापसः पिङ्गाख्यामन्यामुपयेमे युवतीम्। तस्यां च चतुरः सूनूनजनयत्, ये हि निगमाध्ययनोत्तरं क्रतुप्रभृतीनि कर्माण्याचरन्तः स्वपितुरिव प्रथामवापुः।
अथ महीदासे तज्जनन्यां चेतरायां मण्डूकसूनोर्मुनेरनादरः शनैः शनैरवर्धत। तेन विषण्णान्तःकरणेतरा जहौ तदाश्रमपदं, सूनुना सममन्यत्र च निवसितुमारभत। तथापि स्वात्मजायोत्तमसंस्कारप्रदाने सा नैव स्वोद्यमाद्विरराम।
अथैकदा महीदासस्य जपेन परितुष्टो रमापतिस्तस्य स्वप्नान्तरे प्रादुर्भूयादिदेश- “अयि वत्स, नूनं जीवन्मुक्तोऽसि। तथापि त्वया जनन्याः समीहितं परिपूरणीयम्। आचार्योपदेशमन्तरेणापि समग्रा वेदवेदाङ्गविद्यास्त्वां स्वयमेवोपस्थास्यते” इत्युक्त्वा तिरोऽधीयत।
तदनु स महीदासो नाममात्राय गुरुकुले कञ्चित्कालमुषित्वाऽनायासेनैव समग्रं वेदवेदाङ्गविज्ञानमधिजगे। तेन चर्ग्वेदस्य भाष्यमेकं कर्मकाण्डविबोधकं ब्राह्मणं च सन्दर्भमेकं प्रणिनाय। तमेव ग्रन्थमाधारीकृत्य स हरिमेधसं राजानं यज्ञेनैकमयाजयत्।
तदीयेन तेन पाण्डित्येन भृशं प्रीतः स हरिमेधो नृपस्तस्मै प्रभूतं काञ्चनं दक्षिणारूपेण व्यतरत्, आत्मजामपि च परिणेतुं ददौ।
ततः प्रतिनिवृत्तो महीदासः समग्रं वृत्तान्तं मात्रे निवेद्य तस्याश्चरणौ ववन्दे। सूनोरभ्युदयं निरीक्ष्येतरा परमानन्दमन्वभवत्। महीदासोऽपि सुतादीनासाद्य समुचितं गार्हस्थ्यधर्ममनुपालयामास।
तेन रचितः स ब्राह्मणग्रन्थो महीदासब्राह्मणमिति प्रथितामगमत्। तदा महीदास इत्थं व्याजहार- “मम जनन्या प्रतिकूलास्वपि दशासु मम पोषणं विहितम्। पत्युरवहेलां सहमानापि सा मह्यं सत्संस्काराधाने प्रयतमाना व्यलक्ष्यत। अहो भाग्यं मे यदहम् ईदृशीं मातरमलभे। तस्मादितः प्रभृति मया प्रणीतोऽयं सन्दर्भः ‘ऐतरेयब्राह्मणम्’ इति नाम्ना प्रथतां, येन जना अस्या नाम्ना मम जनन्या गौरवमधिगच्छेयुः” इति।
तद्दिनमारभ्य स हि ब्राह्मणग्रन्थः ‘ऐतरेयब्राह्मणम्’ इति व्यपदेशं लेभे। सोऽपि निबन्धस्त्यागमय्या वात्सल्यनिधेः स्वाभिमानधन्याश्चेतराया वृत्तम् अद्यापि स्मारयति पाठकान्।