आपद्धर्म एव परमो धर्मः
अध्वक्लान्तः क्षुत्पिपासार्तश्च पामरः कश्चन काननपथमवगाह्य पुरवरं प्रतस्थे। सुदूरमध्वानं तीर्त्वा परिश्रान्तोऽसौ किञ्चन प्रासादसन्निकाशं हर्म्यं ददर्श। उपसृत्य च कवाटं मुहुर्मुहुराहत्याजुहाव। असकृदाहते च तस्मिन् कश्चिदिभ्यस्तद्गृहपतिरपाववार द्वारम्।
सलिलं ययाचे स ग्राम्यः पिपासोपशमाय। तस्य च मलिनचीरधरं रूपं विलोक्य चुक्रोध स द्रविणगर्वितः। “हा धिक् त्वाम्! तोयबिन्दोः कृते मे विश्राममभाङ्क्षीः? न हि लप्स्यसेऽत्र नीरपृषतमपि” इति तर्जयन् ससम्भ्रमं द्वारमपिदधौ।
विनिराशोऽसौ प्रतस्थे। अन्यस्तु कश्चित् कारुणिकोऽन्नपानादिभिस्तमतर्पयत्। ‘आशिषं ते दिश्यात् परमेश्वरः’ इति तं सत्कृत्य, पौरकृत्यानि सम्पाद्य, स्वनीडमेव निववृते स ग्राम्यः।
अटव्युपकण्ठे एवासीदमुष्य पामरस्यावसथः। एकदा स एवेभ्यो मृगयाविहारी विपिने सखिभिर्वियुक्तो दिङ्मोहमापन्नोऽटाट्यते स्म। परिक्रामतश्चास्य तुरङ्गमः पञ्चतामगमत्। अरण्यनिर्गमपन्थानमविन्दन् पादचारेणैव क्लिश्यमानः, निशीथे कञ्चिदालोकं दूरादालोक्य तमेवाभिदुद्राव।
तच्च सद्मामुष्यैव पामरस्यासीत्। अतिथिममुं ससम्भ्रमं प्रत्युद्गम्य, सलिलफलादिभिः सन्तर्प्य, स्वास्तीर्णं स्वमञ्चकमेव तस्मै विश्रमायादिश्य, स्वयञ्च भूमावेव सुष्वाप स ग्राम्यः।
प्रत्यूषे च कल्यवर्तमुपकल्प्य, तेन साकमेव प्रस्थाय, समीपग्रामे वाजिनमेकं सम्पाद्य, पुरमार्गञ्च तस्मै दिदेश। ततः स इभ्यः कृतज्ञताविष्करणपुरस्सरं निजोत्सङ्गात् कानिचन शातकुम्भनाणकान्युद्धृत्य तस्मै दित्सुर्बभूव।
निराचकार चामूनि स ग्राम्यः, जगाद च - “हे इभ्य! कतिपयमासेभ्यः प्रागहमपि ते निकेतनमुपागमम्।” इति तद्दिने प्रवृत्तं निखिलं वृत्तान्तं श्रावयित्वा पुनरुवाच- “अस्थिरा हि श्रियः। आयान्ति यान्ति च। न हि द्रविणमेव जीवितस्य सर्वस्वम्। यदा कदाचिदप्यस्य जनस्य या काचिदापत्तिरापतेत्, तस्याः शमनमेव करणीयम्। तादृगाचारवानेव पुमान् लोकेषूत्तमत्वेन प्रथेत” इति।
व्रीडावनतमस्तकः स द्रविणपतिर्मौनमेवावलम्ब्य ततो निरगात्।