You are here: Home » buddhism » mn » mn32
← mn31 
 mn33 →

MN32 mahāgośṛṅgasūtram

Summary: On a radiant moonlit night, the senior disciples gather in the Gośṛṅga forest and debate what type of bhikṣu truly illumines the environment, with each highlighting his own spiritual mastery such as learning, asceticism, or psychic power. The Buddha validates each perspective before concluding that the forest is most gloriously illuminated by a bhikṣu who sits resolved never to break meditation until all āsravas are eradicated.

[Reconstructed from the Pali Tipiṭaka back into Sanskrit by Ramakrishnan Suryanarayanan in 2024-26.]

मध्यमनिकाये मूलपञ्चाशत्पाठे महायमकवर्गे महागोशृङ्गसूत्रं द्वितीयम्

एवं मया श्रुतम् — एकस्मिन्समये भगवान्गोशृङ्गशालवनदावे विहरति स्म सम्बहुलैरभिज्ञातैरभिज्ञातैः स्थविरैः श्रावकैः सार्धम् — आयुष्मता च शारिपुत्रेणायुष्मता च महामौद्गल्यायनेनायुष्मता च महाकाश्यपेनायुष्मता चानिरुद्धेनायुष्मता च रेवतेनायुष्मता चानन्देनान्यैश्चाभिज्ञातैरभिज्ञातैः स्थविरैः श्रावकैः सार्धम्। अथ खल्वायुष्मान्महामौद्गल्यायनः सायाह्नसमये प्रतिसंलयनाद्व्युत्थितो येनायुष्मान्महाकाश्यपस्तेनोपसमक्रमीत्, उपसंक्रम्यायुष्मन्तं महाकाश्यपमेतदवोचत् — आयावायुष्मन्काश्यप, येनायुष्माञ्शारिपुत्रस्तेनोपसंक्रमिष्यावो धर्मश्रवणायेति। एवमायुष्मन्निति खल्वायुष्मान्महाकाश्यप आयुष्मते महामौद्गल्यायनाय प्रत्यश्रौषीत्। अथ खल्वायुष्मांश्च महामौद्गल्यायन आयुष्मांश्च महाकाश्यप आयुष्मांश्चानिरुद्धो येनायुष्माञ्शारिपुत्रस्तेनोपसमक्रमिषुर्धर्मश्रवणाय। अद्राक्षीत्खल्वायुष्मानानन्द आयुष्मन्तं च महामौद्गल्यायनमायुष्मन्तं च महाकाश्यपमायुष्मन्तं चानिरुद्धं येनायुष्माञ्शारिपुत्रस्तेनोपसंक्रामतो धर्मश्रवणाय। दृष्ट्वा येनायुष्मान्रेवतस्तेनोपसमक्रमीत्, उपसंक्रम्यायुष्मन्तं रेवतमेतदवोचत् — उपसंक्रामन्तः खल्वमी आयुष्मन्रेवत सत्पुरुषा येनायुष्माञ्शारिपुत्रस्तेन धर्मश्रवणाय। आयावायुष्मन्रेवत, येनायुष्माञ्शारिपुत्रस्तेनोपसंक्रमिष्यावो धर्मश्रवणायेति। एवमायुष्मन्निति खल्वायुष्मान्रेवत आयुष्मत आनन्दाय प्रत्यश्रौषीत्। अथ खल्वायुष्मांश्च रेवत आयुष्मांश्चानन्दो येनायुष्माञ्शारिपुत्रस्तेनोपसमक्रमिष्टां धर्मश्रवणाय।

अद्राक्षीत्खल्वायुष्माञ्शारिपुत्र आयुष्मन्तं च रेवतमायुष्मन्तं चानन्दं दूरत एवागच्छन्तौ। दृष्ट्वायुष्मन्तमानन्दमेतदवोचत् — एतु खल्वायुष्मानानन्दः! स्वागतमायुष्मत आनन्दस्य भगवत उपस्थायकस्य भगवतोऽन्तिकावचरस्य! रमणीयमायुष्मन्नानन्द गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्नानन्द भिक्षुणा गोशृङ्गशालवनं शोभेतेति? इहायुष्मञ्शारिपुत्र भिक्षुर्बहुश्रुतो भवति श्रुतधरः श्रुतसन्निचयः। ये ते धर्मा आदिकल्याणा मध्यकल्याणाः पर्यवसानकल्याणाः सार्थाः सव्यञ्जनाः केवलपरिपूर्णं परिशुद्धं ब्रह्मचर्यमभिवदन्ति, तथारूपा अस्य धर्मा बहुश्रुता भवन्ति, धृताः, वचसा परिचिताः, मनसान्ववेक्षिताः, दृष्ट्या सुप्रतिविद्धाः। स चतसृणां परिषदां धर्मं देशयति परिमण्डलैः पदव्यञ्जनैरनुप्रबद्धैरनुशयसमुद्घाताय। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

एवमुक्त आयुष्माञ्शारिपुत्र आयुष्मन्तं रेवतमेतदवोचत् — व्याकृतं खल्वायुष्मन्रेवतायुष्मतानन्देन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं रेवतं पृच्छामः — रमणीयमायुष्मन्रेवत गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्रेवत भिक्षुणा गोशृङ्गशालवनं शोभेतेति? इहायुष्मञ्शारिपुत्र भिक्षुः प्रतिसंलयनारामो भवति प्रतिसंलयनरतः, अध्यात्मं चेतःशमथमनुयुक्तोऽनिराकृतध्यानः, विपश्यनया समन्वागतो बृंहयिता शून्यागाराणाम्। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

एवमुक्त आयुष्माञ्शारिपुत्र आयुष्मन्तं अनिरुद्धमेतदवोचत् — व्याकृतं खल्वायुष्मन्ननिरुद्धायुष्मता रेवतेन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तमनिरुद्धं पृच्छामः — रमणीयमायुष्मन्ननिरुद्ध गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्ननिरुद्ध भिक्षुणा गोशृङ्गशालवनं शोभेतेति? इहायुष्मञ्शारिपुत्र भिक्षुर्दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सहस्रं लोकानां व्यवलोकयति। तद्यथाप्यायुष्मञ्शारिपुत्र चक्षुष्मान्पुरुष उपरिप्रासादवरगतः सहस्रं नेमिमण्डलानां व्यवलोकयेत्, एवमेव खल्वायुष्मञ्शारिपुत्र भिक्षुर्दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सहस्रं लोकानां व्यवलोकयति। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

एवमुक्त आयुष्माञ्शारिपुत्र आयुष्मन्तं महाकाश्यपमेतदवोचत् — व्याकृतं खल्वायुष्मन्काश्यपायुष्मतानिरुद्धेन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं महाकाश्यपं पृच्छामः — रमणीयमायुष्मन्काश्यप गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्काश्यप भिक्षुणा गोशृङ्गशालवनं शोभेतेति? इहायुष्मञ्शारिपुत्र भिक्षुरात्मना चारण्यको भवत्यारण्यकत्वस्य च वर्णवादी, आत्मना च पैण्डपातिको भवति पैण्डपातिकत्वस्य च वर्णवादी, आत्मना च पांशुकूलिको भवति पांशुकूलिकत्वस्य च वर्णवादी, आत्मना च त्रैचीवरिको भवति त्रैचीवरिकत्वस्य च वर्णवादी, आत्मना चाल्पेच्छो भवत्यल्पेच्छतायाश्च वर्णवादी, आत्मना च सन्तुष्टो भवति सन्तुष्टेश्च वर्णवादी, आत्मना च प्रविविक्तो भवति प्रविवेकस्य च वर्णवादी, आत्मना चासंसृष्टो भवत्यसंसर्गस्य च वर्णवादी, आत्मना चारब्धवीर्यो भवति वीर्यारम्भस्य च वर्णवादी, आत्मना च शीलसम्पन्नो भवति शीलसम्पदश्च वर्णवादी, आत्मना च समाधिसम्पन्नो भवति समाधिसम्पदश्च वर्णवादी, आत्मना च प्रज्ञासम्पन्नो भवति प्रज्ञासम्पदश्च वर्णवादी, आत्मना च विमुक्तिसम्पन्नो भवति विमुक्तिसम्पदश्च वर्णवादी, आत्मना च विमुक्तिज्ञानदर्शनसम्पन्नो भवति विमुक्तिज्ञानदर्शनसम्पदश्च वर्णवादी। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

एवमुक्त आयुष्माञ्शारिपुत्र आयुष्मन्तं महामौद्गल्यायनमेतदवोचत् — व्याकृतं खल्वायुष्मन्मौद्गल्यायनायुष्मता महाकाश्यपेन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं महामौद्गल्यायनं पृच्छामः — रमणीयमायुष्मन्मौद्गल्यायन गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्मौद्गल्यायन भिक्षुणा गोशृङ्गशालवनं शोभेतेति? इहायुष्मञ्शारिपुत्र द्वौ भिक्षू अभिधर्मकथां कथयतः, तावन्योन्यं प्रश्नं पृच्छतः, अन्योन्यस्य प्रश्नं पृष्टौ विसर्जयतः, नो च संसीदतः, धार्मिकी च तयोः कथा प्रवर्तिनी भवति। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

अथ खल्वायुष्मान्महामौद्गल्यायन आयुष्मन्तं शारिपुत्रमेतदवोचत् — व्याकृतं खल्वायुष्मञ्शारिपुत्रास्माभिः सर्वैरेव यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं शारिपुत्रं पृच्छामः — रमणीयमायुष्मञ्शारिपुत्र गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति? इहायुष्मन्मौद्गल्यायन भिक्षुश्चित्तं वशे वर्तयति, नो च भिक्षुश्चित्तस्य वशेन वर्तते। स यया विहारसमापत्त्याकाङ्क्षति पूर्वाह्णसमये विहर्तुम्, तया विहारसमापत्त्या पूर्वाह्णसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति मध्याह्नसमये विहर्तुम्, तया विहारसमापत्त्या मध्याह्नसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति सायाह्नसमये विहर्तुम्, तया विहारसमापत्त्या सायाह्नसमये विहरति। तद्यथाप्यायुष्मन्मौद्गल्यायन राज्ञो वा राजमहामात्रस्य वा नानारक्तानां दूष्याणां दूष्यकरण्डकः पूर्णः स्यात्। स यद्यदेव दूष्ययुगमाकाङ्क्षेत्पूर्वाह्णसमये प्रावरितुम्, तत्तदेव दूष्ययुगं पूर्वाह्णसमये प्रावृणुयात्, यद्यदेव दूष्ययुगमाकाङ्क्षेन्मध्याह्नसमये प्रावरितुम्, तत्तदेव दूष्ययुगं मध्याह्नसमये प्रावृणुयात्, यद्यदेव दूष्ययुगमाकाङ्क्षेत्सायाह्नसमये प्रावरितुम्, तत्तदेव दूष्ययुगं सायाह्नसमये प्रावृणुयात्। एवमेव खल्वायुष्मन्मौद्गल्यायन भिक्षुश्चित्तं वशे वर्तयति, नो च भिक्षुश्चित्तस्य वशेन वर्तते। स यया विहारसमापत्त्याकाङ्क्षति पूर्वाह्णसमये विहर्तुम्, तया विहारसमापत्त्या पूर्वाह्णसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति मध्याह्नसमये विहर्तुम्, तया विहारसमापत्त्या मध्याह्नसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति सायाह्नसमये विहर्तुम्, तया विहारसमापत्त्या सायाह्नसमये विहरति। एवंरूपेण खल्वायुष्मन्मौद्गल्यायन भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

अथ खल्वायुष्माञ्शारिपुत्रस्तानायुष्मत एतदवोचत् — व्याकृतं खल्वायुष्मन्तोऽस्माभिः सर्वैरेव यथास्वं प्रतिभानम्। आयामायुष्मन्तः, येन भगवांस्तेनोपसंक्रमिष्यामः, उपसंक्रम्यैतमर्थं भगवत आरोचयिष्यामः। यथा नो भगवान्व्याकरिष्यति तथा तं धारयिष्याम इति। एवमायुष्मन्निति खलु त आयुष्मन्त आयुष्मते शारिपुत्राय प्रत्यश्रौषुः। अथ खलु त आयुष्मन्तो येन भगवांस्तेनोपसमक्रमिषुः, उपसंक्रम्य भगवन्तमभिवाद्यैकान्ते न्यषदन्। एकान्ते निषण्णः खल्वायुष्माञ्शारिपुत्रो भगवन्तमेतदवोचत् — अद्राक्षं खल्वहं भदन्तायुष्मन्तं च रेवतमायुष्मन्तं चानन्दं दूरत एवागच्छन्तौ। दृष्ट्वायुष्मन्तमानन्दमेतदवोचम् — एतु खल्वायुष्मानानन्दः! स्वागतमायुष्मत आनन्दस्य भगवत उपस्थायकस्य भगवतोऽन्तिकावचरस्य! रमणीयमायुष्मन्नानन्द गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्नानन्द भिक्षुणा गोशृङ्गशालवनं शोभेतेति? एवमुक्ते भदन्तायुष्मानानन्दो मामेतदवोचत् — इहायुष्मञ्शारिपुत्र भिक्षुर्बहुश्रुतो भवति श्रुतधरः (पूर्ववत्) अनुशयसमुद्घाताय। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति। साधु साधु शारिपुत्र! यथा तदानन्द एव सम्यग्व्याकुर्वाणो व्याकुर्यात्। आनन्दो हि शारिपुत्र बहुश्रुतः श्रुतधरः श्रुतसन्निचयः। ये ते धर्मा आदिकल्याणा मध्यकल्याणाः पर्यवसानकल्याणाः सार्थाः सव्यञ्जनाः केवलपरिपूर्णं परिशुद्धं ब्रह्मचर्यमभिवदन्ति, तथारूपा अस्य धर्मा बहुश्रुता भवन्ति, धृताः, वचसा परिचिताः, मनसान्ववेक्षिताः, दृष्ट्या सुप्रतिविद्धाः। स चतसृणां परिषदां धर्मं देशयति परिमण्डलैः पदव्यञ्जनैरनुप्रबद्धैरनुशयसमुद्घातायेति।

एवमुक्तेऽहं भदन्तायुष्मन्तं रेवतमेतदवोचम् — व्याकृतं खल्वायुष्मन्रेवतायुष्मतानन्देन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं रेवतं पृच्छामः — रमणीयमायुष्मन्रेवत गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मन्रेवत भिक्षुणा गोशृङ्गशालवनं शोभेतेति? एवमुक्ते भदन्तायुष्मान्रेवतो मामेतदवोचत् — इहायुष्मञ्शारिपुत्र भिक्षुः प्रतिसंलयनारामो भवति प्रतिसंलयनरतः, अध्यात्मं चेतःशमथमनुयुक्तोऽनिराकृतध्यानः, विपश्यनया समन्वागतो बृंहयिता शून्यागाराणाम्। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति। साधु साधु शारिपुत्र! यथा तद्रेवत एव सम्यग्व्याकुर्वाणो व्याकुर्यात्। रेवतो हि शारिपुत्र प्रतिसंलयनारामः प्रतिसंलयनरतः, अध्यात्मं चेतःशमथमनुयुक्तोऽनिराकृतध्यानः, विपश्यनया समन्वागतो बृंहयिता शून्यागाराणामिति।

एवमुक्तेऽहं भदन्तायुष्मन्तमनिरुद्धमेतदवोचम् — व्याकृतं खल्वायुष्मन्ननिरुद्धायुष्मता रेवतेन (पूर्ववत्) कथंरूपेणायुष्मन्ननिरुद्ध भिक्षुणा गोशृङ्गशालवनं शोभेतेति? एवमुक्ते भदन्तायुष्माननिरुद्धो मामेतदवोचत् — इहायुष्मञ्शारिपुत्र भिक्षुर्दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सहस्रं लोकानां व्यवलोकयति। तद्यथाप्यायुष्मञ्शारिपुत्र चक्षुष्मान्पुरुषः (पूर्ववत्) एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति। साधु साधु शारिपुत्र! यथा तदनिरुद्ध एव सम्यग्व्याकुर्वाणो व्याकुर्यात्। अनिरुद्धो हि शारिपुत्र दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सहस्रं लोकानां व्यवलोकयतीति।

एवमुक्तेऽहं भदन्तायुष्मन्तं महाकाश्यपमेतदवोचम् — व्याकृतं खल्वायुष्मन्काश्यपायुष्मतानिरुद्धेन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं महाकाश्यपं पृच्छामः (पूर्ववत्) कथंरूपेण खल्वायुष्मन्काश्यप भिक्षुणा गोशृङ्गशालवनं शोभेतेति? एवमुक्ते भदन्तायुष्मान्महाकाश्यपो मामेतदवोचत् — इहायुष्मञ्शारिपुत्र भिक्षुरात्मना चारण्यको भवत्यारण्यकत्वस्य च वर्णवादी, आत्मना च पैण्डपातिको भवति (पूर्ववत्) आत्मना च पांशुकूलिको भवति (पूर्ववत्) आत्मना च त्रैचीवरिको भवति (पूर्ववत्) आत्मना चाल्पेच्छो भवति (पूर्ववत्) आत्मना च सन्तुष्टो भवति (पूर्ववत्) आत्मना च प्रविविक्तो भवति (पूर्ववत्) आत्मना चासंसृष्टो भवति (पूर्ववत्) आत्मना चारब्धवीर्यो भवति (पूर्ववत्) आत्मना च शीलसम्पन्नो भवति (पूर्ववत्) आत्मना च समाधिसम्पन्नो भवति (पूर्ववत्) आत्मना च प्रज्ञासम्पन्नो भवति (पूर्ववत्) आत्मना च विमुक्तिसम्पन्नो भवति (पूर्ववत्) आत्मना च विमुक्तिज्ञानदर्शनसम्पन्नो भवति विमुक्तिज्ञानदर्शनसम्पदश्च वर्णवादी। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति। साधु साधु शारिपुत्र! यथा तत्काश्यप एव सम्यग्व्याकुर्वाणो व्याकुर्यात्। काश्यपो हि शारिपुत्रात्मना चारण्यक आरण्यकत्वस्य च वर्णवादी, आत्मना च पैण्डपातिकः पैण्डपातिकत्वस्य च वर्णवादी, आत्मना च पांशुकूलिकः पांशुकूलिकत्वस्य च वर्णवादी, आत्मना च त्रैचीवरिकस्त्रैचीवरिकत्वस्य च वर्णवादी, आत्मना चाल्पेच्छोऽल्पेच्छतायाश्च वर्णवादी, आत्मना च सन्तुष्टः सन्तुष्टेश्च वर्णवादी, आत्मना च प्रविविक्तः प्रविवेकस्य च वर्णवादी, आत्मना चासंसृष्टोऽसंसर्गस्य च वर्णवादी, आत्मना चारब्धवीर्यो वीर्यारम्भस्य च वर्णवादी, आत्मना च शीलसम्पन्नः शीलसम्पदश्च वर्णवादी, आत्मना च समाधिसम्पन्नः समाधिसम्पदश्च वर्णवादी, आत्मना च प्रज्ञासम्पन्नः प्रज्ञासम्पदश्च वर्णवादी, आत्मना च विमुक्तिसम्पन्नो विमुक्तिसम्पदश्च वर्णवादी, आत्मना च विमुक्तिज्ञानदर्शनसम्पन्नो विमुक्तिज्ञानदर्शनसम्पदश्च वर्णवादीति।

एवमुक्तेऽहं भदन्तायुष्मन्तं महामौद्गल्यायनमेतदवोचम् — व्याकृतं खल्वायुष्मन्मौद्गल्यायनायुष्मता महाकाश्यपेन यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं महामौद्गल्यायनं पृच्छामः (पूर्ववत्) कथंरूपेणायुष्मन्मौद्गल्यायन भिक्षुणा गोशृङ्गशालवनं शोभेतेति? एवमुक्ते भदन्तायुष्मान्महामौद्गल्यायनो मामेतदवोचत् — इहायुष्मञ्शारिपुत्र द्वौ भिक्षू अभिधर्मकथां कथयतः, तावन्योन्यं प्रश्नं पृच्छतः, अन्योन्यस्य प्रश्नं पृष्टौ विसर्जयतः, नो च संसीदतः, धार्मिकी च तयोः कथा प्रवर्तिनी भवति। एवंरूपेण खल्वायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति। साधु साधु शारिपुत्र! यथा तन्मौद्गल्यायन एव सम्यग्व्याकुर्वाणो व्याकुर्यात्। मौद्गल्यायनो हि शारिपुत्र धर्मकथिक इति।

एवमुक्त आयुष्मान्महामौद्गल्यायनो भगवन्तमेतदवोचत् — अथ खल्वहं भदन्तायुष्मन्तं शारिपुत्रमेतदवोचम् — व्याकृतं खल्वायुष्मञ्शारिपुत्रास्माभिः सर्वैरेव यथास्वं प्रतिभानम्। तत्रेदानीं वयमायुष्मन्तं शारिपुत्रं पृच्छामः — रमणीयमायुष्मञ्शारिपुत्र गोशृङ्गशालवनम्, ज्योत्स्ना रात्रिः, सर्वप्रफुल्लाः शालाः, दिव्या मन्ये गन्धाः संप्रवान्ति, कथंरूपेणायुष्मञ्शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति? एवमुक्ते भदन्तायुष्माञ्शारिपुत्रो मामेतदवोचत् — इहायुष्मन्मौद्गल्यायन भिक्षुश्चित्तं वशे वर्तयति, नो च भिक्षुश्चित्तस्य वशेन वर्तते। स यया विहारसमापत्त्याकाङ्क्षति पूर्वाह्णसमये विहर्तुम्, तया विहारसमापत्त्या पूर्वाह्णसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति मध्याह्नसमये विहर्तुम्, तया विहारसमापत्त्या मध्याह्नसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति सायाह्नसमये विहर्तुम्, तया विहारसमापत्त्या सायाह्नसमये विहरति। तद्यथाप्यायुष्मन्मौद्गल्यायन राज्ञो वा राजमहामात्रस्य वा नानारक्तानां दूष्याणां दूष्यकरण्डकः पूर्णः स्यात्। स यद्यदेव दूष्ययुगमाकाङ्क्षेत्पूर्वाह्णसमये प्रावरितुम्, तत्तदेव दूष्ययुगं पूर्वाह्णसमये प्रावृणुयात्, यद्यदेव दूष्ययुगमाकाङ्क्षेन्मध्याह्नसमये प्रावरितुम्, तत्तदेव दूष्ययुगं मध्याह्नसमये प्रावृणुयात्, यद्यदेव दूष्ययुगमाकाङ्क्षेत्सायाह्नसमये प्रावरितुम्, तत्तदेव दूष्ययुगं सायाह्नसमये प्रावृणुयात्। एवमेव खल्वायुष्मन्मौद्गल्यायन भिक्षुश्चित्तं वशे वर्तयति, नो च भिक्षुश्चित्तस्य वशेन वर्तते। स यया विहारसमापत्त्याकाङ्क्षति पूर्वाह्णसमये विहर्तुम्, तया विहारसमापत्त्या पूर्वाह्णसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति मध्याह्नसमये विहर्तुम्, तया विहारसमापत्त्या मध्याह्नसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति सायाह्नसमये विहर्तुम्, तया विहारसमापत्त्या सायाह्नसमये विहरति। एवंरूपेण खल्वायुष्मन्मौद्गल्यायन भिक्षुणा गोशृङ्गशालवनं शोभेतेति। साधु साधु मौद्गल्यायन! यथा तच्छारिपुत्र एव सम्यग्व्याकुर्वाणो व्याकुर्यात्। शारिपुत्रो हि मौद्गल्यायन चित्तं वशे वर्तयति, नो च शारिपुत्रश्चित्तस्य वशेन वर्तते। स यया विहारसमापत्त्याकाङ्क्षति पूर्वाह्णसमये विहर्तुम्, तया विहारसमापत्त्या पूर्वाह्णसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति मध्याह्नसमये विहर्तुम्, तया विहारसमापत्त्या मध्याह्नसमये विहरति, यया विहारसमापत्त्याकाङ्क्षति सायाह्नसमये विहर्तुम्, तया विहारसमापत्त्या सायाह्नसमये विहरतीति।

एवमुक्त आयुष्माञ्शारिपुत्रो भगवन्तमेतदवोचत् — कस्य नु खलु भदन्त सुभाषितमिति? सर्वेषां वः शारिपुत्र सुभाषितं पर्यायेण। अपि च ममापि शृणुत यथारूपेण भिक्षुणा गोशृङ्गशालवनं शोभेत। इह शारिपुत्र भिक्षुः पश्चाद्भक्तं पिण्डपातप्रतिक्रान्तो निषीदति पर्यङ्कमाभुज्यर्जुं कायं प्रणिधाय प्रतिमुखीं स्मृतिमुपस्थाप्य — न तावदहमिमं पर्यङ्कं भेत्स्यामि यावन्मे नानुपादायास्रवेभ्यश्चित्तं विमोक्ष्यत इति। एवंरूपेण खलु शारिपुत्र भिक्षुणा गोशृङ्गशालवनं शोभेतेति।

इदमवोचद्भगवान्। आत्तमनसस्त आयुष्मन्तो भगवतो भाषितमभ्यनन्दिषुः।

महागोशृङ्गसूत्रं निष्ठितं द्वितीयम्।

—

madhyamanikāye mūlapañcāśatpāṭhe mahāyamakavarge mahāgośṛṅgasūtraṃ dvitīyam

evaṃ mayā śrutam — ekasminsamaye bhagavāngośṛṅgaśālavanadāve viharati sma sambahulairabhijñātairabhijñātaiḥ sthaviraiḥ śrāvakaiḥ sārdham — āyuṣmatā ca śāriputreṇāyuṣmatā ca mahāmaudgalyāyanenāyuṣmatā ca mahākāśyapenāyuṣmatā cāniruddhenāyuṣmatā ca revatenāyuṣmatā cānandenānyaiścābhijñātairabhijñātaiḥ sthaviraiḥ śrāvakaiḥ sārdham. atha khalvāyuṣmānmahāmaudgalyāyanaḥ sāyāhnasamaye pratisaṃlayanādvyutthito yenāyuṣmānmahākāśyapastenopasamakramīt, upasaṃkramyāyuṣmantaṃ mahākāśyapametadavocat — āyāvāyuṣmankāśyapa, yenāyuṣmāñśāriputrastenopasaṃkramiṣyāvo dharmaśravaṇāyeti. evamāyuṣmanniti khalvāyuṣmānmahākāśyapa āyuṣmate mahāmaudgalyāyanāya pratyaśrauṣīt. atha khalvāyuṣmāṃśca mahāmaudgalyāyana āyuṣmāṃśca mahākāśyapa āyuṣmāṃścāniruddho yenāyuṣmāñśāriputrastenopasamakramiṣurdharmaśravaṇāya. adrākṣītkhalvāyuṣmānānanda āyuṣmantaṃ ca mahāmaudgalyāyanamāyuṣmantaṃ ca mahākāśyapamāyuṣmantaṃ cāniruddhaṃ yenāyuṣmāñśāriputrastenopasaṃkrāmato dharmaśravaṇāya. dṛṣṭvā yenāyuṣmānrevatastenopasamakramīt, upasaṃkramyāyuṣmantaṃ revatametadavocat — upasaṃkrāmantaḥ khalvamī āyuṣmanrevata satpuruṣā yenāyuṣmāñśāriputrastena dharmaśravaṇāya. āyāvāyuṣmanrevata, yenāyuṣmāñśāriputrastenopasaṃkramiṣyāvo dharmaśravaṇāyeti. evamāyuṣmanniti khalvāyuṣmānrevata āyuṣmata ānandāya pratyaśrauṣīt. atha khalvāyuṣmāṃśca revata āyuṣmāṃścānando yenāyuṣmāñśāriputrastenopasamakramiṣṭāṃ dharmaśravaṇāya.

adrākṣītkhalvāyuṣmāñśāriputra āyuṣmantaṃ ca revatamāyuṣmantaṃ cānandaṃ dūrata evāgacchantau. dṛṣṭvāyuṣmantamānandametadavocat — etu khalvāyuṣmānānandaḥ! svāgatamāyuṣmata ānandasya bhagavata upasthāyakasya bhagavato'ntikāvacarasya! ramaṇīyamāyuṣmannānanda gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmannānanda bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? ihāyuṣmañśāriputra bhikṣurbahuśruto bhavati śrutadharaḥ śrutasannicayaḥ. ye te dharmā ādikalyāṇā madhyakalyāṇāḥ paryavasānakalyāṇāḥ sārthāḥ savyañjanāḥ kevalaparipūrṇaṃ pariśuddhaṃ brahmacaryamabhivadanti, tathārūpā asya dharmā bahuśrutā bhavanti, dhṛtāḥ, vacasā paricitāḥ, manasānvavekṣitāḥ, dṛṣṭyā supratividdhāḥ. sa catasṛṇāṃ pariṣadāṃ dharmaṃ deśayati parimaṇḍalaiḥ padavyañjanairanuprabaddhairanuśayasamudghātāya. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

evamukta āyuṣmāñśāriputra āyuṣmantaṃ revatametadavocat — vyākṛtaṃ khalvāyuṣmanrevatāyuṣmatānandena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ revataṃ pṛcchāmaḥ — ramaṇīyamāyuṣmanrevata gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmanrevata bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? ihāyuṣmañśāriputra bhikṣuḥ pratisaṃlayanārāmo bhavati pratisaṃlayanarataḥ, adhyātmaṃ cetaḥśamathamanuyukto'nirākṛtadhyānaḥ, vipaśyanayā samanvāgato bṛṃhayitā śūnyāgārāṇām. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

evamukta āyuṣmāñśāriputra āyuṣmantaṃ aniruddhametadavocat — vyākṛtaṃ khalvāyuṣmannaniruddhāyuṣmatā revatena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantamaniruddhaṃ pṛcchāmaḥ — ramaṇīyamāyuṣmannaniruddha gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmannaniruddha bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? ihāyuṣmañśāriputra bhikṣurdivyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sahasraṃ lokānāṃ vyavalokayati. tadyathāpyāyuṣmañśāriputra cakṣuṣmānpuruṣa upariprāsādavaragataḥ sahasraṃ nemimaṇḍalānāṃ vyavalokayet, evameva khalvāyuṣmañśāriputra bhikṣurdivyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sahasraṃ lokānāṃ vyavalokayati. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

evamukta āyuṣmāñśāriputra āyuṣmantaṃ mahākāśyapametadavocat — vyākṛtaṃ khalvāyuṣmankāśyapāyuṣmatāniruddhena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ mahākāśyapaṃ pṛcchāmaḥ — ramaṇīyamāyuṣmankāśyapa gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmankāśyapa bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? ihāyuṣmañśāriputra bhikṣurātmanā cāraṇyako bhavatyāraṇyakatvasya ca varṇavādī, ātmanā ca paiṇḍapātiko bhavati paiṇḍapātikatvasya ca varṇavādī, ātmanā ca pāṃśukūliko bhavati pāṃśukūlikatvasya ca varṇavādī, ātmanā ca traicīvariko bhavati traicīvarikatvasya ca varṇavādī, ātmanā cālpeccho bhavatyalpecchatāyāśca varṇavādī, ātmanā ca santuṣṭo bhavati santuṣṭeśca varṇavādī, ātmanā ca pravivikto bhavati pravivekasya ca varṇavādī, ātmanā cāsaṃsṛṣṭo bhavatyasaṃsargasya ca varṇavādī, ātmanā cārabdhavīryo bhavati vīryārambhasya ca varṇavādī, ātmanā ca śīlasampanno bhavati śīlasampadaśca varṇavādī, ātmanā ca samādhisampanno bhavati samādhisampadaśca varṇavādī, ātmanā ca prajñāsampanno bhavati prajñāsampadaśca varṇavādī, ātmanā ca vimuktisampanno bhavati vimuktisampadaśca varṇavādī, ātmanā ca vimuktijñānadarśanasampanno bhavati vimuktijñānadarśanasampadaśca varṇavādī. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

evamukta āyuṣmāñśāriputra āyuṣmantaṃ mahāmaudgalyāyanametadavocat — vyākṛtaṃ khalvāyuṣmanmaudgalyāyanāyuṣmatā mahākāśyapena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ mahāmaudgalyāyanaṃ pṛcchāmaḥ — ramaṇīyamāyuṣmanmaudgalyāyana gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmanmaudgalyāyana bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? ihāyuṣmañśāriputra dvau bhikṣū abhidharmakathāṃ kathayataḥ, tāvanyonyaṃ praśnaṃ pṛcchataḥ, anyonyasya praśnaṃ pṛṣṭau visarjayataḥ, no ca saṃsīdataḥ, dhārmikī ca tayoḥ kathā pravartinī bhavati. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

atha khalvāyuṣmānmahāmaudgalyāyana āyuṣmantaṃ śāriputrametadavocat — vyākṛtaṃ khalvāyuṣmañśāriputrāsmābhiḥ sarvaireva yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ śāriputraṃ pṛcchāmaḥ — ramaṇīyamāyuṣmañśāriputra gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? ihāyuṣmanmaudgalyāyana bhikṣuścittaṃ vaśe vartayati, no ca bhikṣuścittasya vaśena vartate. sa yayā vihārasamāpattyākāṅkṣati pūrvāhṇasamaye vihartum, tayā vihārasamāpattyā pūrvāhṇasamaye viharati, yayā vihārasamāpattyākāṅkṣati madhyāhnasamaye vihartum, tayā vihārasamāpattyā madhyāhnasamaye viharati, yayā vihārasamāpattyākāṅkṣati sāyāhnasamaye vihartum, tayā vihārasamāpattyā sāyāhnasamaye viharati. tadyathāpyāyuṣmanmaudgalyāyana rājño vā rājamahāmātrasya vā nānāraktānāṃ dūṣyāṇāṃ dūṣyakaraṇḍakaḥ pūrṇaḥ syāt. sa yadyadeva dūṣyayugamākāṅkṣetpūrvāhṇasamaye prāvaritum, tattadeva dūṣyayugaṃ pūrvāhṇasamaye prāvṛṇuyāt, yadyadeva dūṣyayugamākāṅkṣenmadhyāhnasamaye prāvaritum, tattadeva dūṣyayugaṃ madhyāhnasamaye prāvṛṇuyāt, yadyadeva dūṣyayugamākāṅkṣetsāyāhnasamaye prāvaritum, tattadeva dūṣyayugaṃ sāyāhnasamaye prāvṛṇuyāt. evameva khalvāyuṣmanmaudgalyāyana bhikṣuścittaṃ vaśe vartayati, no ca bhikṣuścittasya vaśena vartate. sa yayā vihārasamāpattyākāṅkṣati pūrvāhṇasamaye vihartum, tayā vihārasamāpattyā pūrvāhṇasamaye viharati, yayā vihārasamāpattyākāṅkṣati madhyāhnasamaye vihartum, tayā vihārasamāpattyā madhyāhnasamaye viharati, yayā vihārasamāpattyākāṅkṣati sāyāhnasamaye vihartum, tayā vihārasamāpattyā sāyāhnasamaye viharati. evaṃrūpeṇa khalvāyuṣmanmaudgalyāyana bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

atha khalvāyuṣmāñśāriputrastānāyuṣmata etadavocat — vyākṛtaṃ khalvāyuṣmanto'smābhiḥ sarvaireva yathāsvaṃ pratibhānam. āyāmāyuṣmantaḥ, yena bhagavāṃstenopasaṃkramiṣyāmaḥ, upasaṃkramyaitamarthaṃ bhagavata ārocayiṣyāmaḥ. yathā no bhagavānvyākariṣyati tathā taṃ dhārayiṣyāma iti. evamāyuṣmanniti khalu ta āyuṣmanta āyuṣmate śāriputrāya pratyaśrauṣuḥ. atha khalu ta āyuṣmanto yena bhagavāṃstenopasamakramiṣuḥ, upasaṃkramya bhagavantamabhivādyaikānte nyaṣadan. ekānte niṣaṇṇaḥ khalvāyuṣmāñśāriputro bhagavantametadavocat — adrākṣaṃ khalvahaṃ bhadantāyuṣmantaṃ ca revatamāyuṣmantaṃ cānandaṃ dūrata evāgacchantau. dṛṣṭvāyuṣmantamānandametadavocam — etu khalvāyuṣmānānandaḥ! svāgatamāyuṣmata ānandasya bhagavata upasthāyakasya bhagavato'ntikāvacarasya! ramaṇīyamāyuṣmannānanda gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmannānanda bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? evamukte bhadantāyuṣmānānando māmetadavocat — ihāyuṣmañśāriputra bhikṣurbahuśruto bhavati śrutadharaḥ (pūrvavat) anuśayasamudghātāya. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti. sādhu sādhu śāriputra! yathā tadānanda eva samyagvyākurvāṇo vyākuryāt. ānando hi śāriputra bahuśrutaḥ śrutadharaḥ śrutasannicayaḥ. ye te dharmā ādikalyāṇā madhyakalyāṇāḥ paryavasānakalyāṇāḥ sārthāḥ savyañjanāḥ kevalaparipūrṇaṃ pariśuddhaṃ brahmacaryamabhivadanti, tathārūpā asya dharmā bahuśrutā bhavanti, dhṛtāḥ, vacasā paricitāḥ, manasānvavekṣitāḥ, dṛṣṭyā supratividdhāḥ. sa catasṛṇāṃ pariṣadāṃ dharmaṃ deśayati parimaṇḍalaiḥ padavyañjanairanuprabaddhairanuśayasamudghātāyeti.

evamukte'haṃ bhadantāyuṣmantaṃ revatametadavocam — vyākṛtaṃ khalvāyuṣmanrevatāyuṣmatānandena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ revataṃ pṛcchāmaḥ — ramaṇīyamāyuṣmanrevata gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmanrevata bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? evamukte bhadantāyuṣmānrevato māmetadavocat — ihāyuṣmañśāriputra bhikṣuḥ pratisaṃlayanārāmo bhavati pratisaṃlayanarataḥ, adhyātmaṃ cetaḥśamathamanuyukto'nirākṛtadhyānaḥ, vipaśyanayā samanvāgato bṛṃhayitā śūnyāgārāṇām. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti. sādhu sādhu śāriputra! yathā tadrevata eva samyagvyākurvāṇo vyākuryāt. revato hi śāriputra pratisaṃlayanārāmaḥ pratisaṃlayanarataḥ, adhyātmaṃ cetaḥśamathamanuyukto'nirākṛtadhyānaḥ, vipaśyanayā samanvāgato bṛṃhayitā śūnyāgārāṇāmiti.

evamukte'haṃ bhadantāyuṣmantamaniruddhametadavocam — vyākṛtaṃ khalvāyuṣmannaniruddhāyuṣmatā revatena (pūrvavat) kathaṃrūpeṇāyuṣmannaniruddha bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? evamukte bhadantāyuṣmānaniruddho māmetadavocat — ihāyuṣmañśāriputra bhikṣurdivyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sahasraṃ lokānāṃ vyavalokayati. tadyathāpyāyuṣmañśāriputra cakṣuṣmānpuruṣaḥ (pūrvavat) evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti. sādhu sādhu śāriputra! yathā tadaniruddha eva samyagvyākurvāṇo vyākuryāt. aniruddho hi śāriputra divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sahasraṃ lokānāṃ vyavalokayatīti.

evamukte'haṃ bhadantāyuṣmantaṃ mahākāśyapametadavocam — vyākṛtaṃ khalvāyuṣmankāśyapāyuṣmatāniruddhena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ mahākāśyapaṃ pṛcchāmaḥ (pūrvavat) kathaṃrūpeṇa khalvāyuṣmankāśyapa bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? evamukte bhadantāyuṣmānmahākāśyapo māmetadavocat — ihāyuṣmañśāriputra bhikṣurātmanā cāraṇyako bhavatyāraṇyakatvasya ca varṇavādī, ātmanā ca paiṇḍapātiko bhavati (pūrvavat) ātmanā ca pāṃśukūliko bhavati (pūrvavat) ātmanā ca traicīvariko bhavati (pūrvavat) ātmanā cālpeccho bhavati (pūrvavat) ātmanā ca santuṣṭo bhavati (pūrvavat) ātmanā ca pravivikto bhavati (pūrvavat) ātmanā cāsaṃsṛṣṭo bhavati (pūrvavat) ātmanā cārabdhavīryo bhavati (pūrvavat) ātmanā ca śīlasampanno bhavati (pūrvavat) ātmanā ca samādhisampanno bhavati (pūrvavat) ātmanā ca prajñāsampanno bhavati (pūrvavat) ātmanā ca vimuktisampanno bhavati (pūrvavat) ātmanā ca vimuktijñānadarśanasampanno bhavati vimuktijñānadarśanasampadaśca varṇavādī. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti. sādhu sādhu śāriputra! yathā tatkāśyapa eva samyagvyākurvāṇo vyākuryāt. kāśyapo hi śāriputrātmanā cāraṇyaka āraṇyakatvasya ca varṇavādī, ātmanā ca paiṇḍapātikaḥ paiṇḍapātikatvasya ca varṇavādī, ātmanā ca pāṃśukūlikaḥ pāṃśukūlikatvasya ca varṇavādī, ātmanā ca traicīvarikastraicīvarikatvasya ca varṇavādī, ātmanā cālpeccho'lpecchatāyāśca varṇavādī, ātmanā ca santuṣṭaḥ santuṣṭeśca varṇavādī, ātmanā ca praviviktaḥ pravivekasya ca varṇavādī, ātmanā cāsaṃsṛṣṭo'saṃsargasya ca varṇavādī, ātmanā cārabdhavīryo vīryārambhasya ca varṇavādī, ātmanā ca śīlasampannaḥ śīlasampadaśca varṇavādī, ātmanā ca samādhisampannaḥ samādhisampadaśca varṇavādī, ātmanā ca prajñāsampannaḥ prajñāsampadaśca varṇavādī, ātmanā ca vimuktisampanno vimuktisampadaśca varṇavādī, ātmanā ca vimuktijñānadarśanasampanno vimuktijñānadarśanasampadaśca varṇavādīti.

evamukte'haṃ bhadantāyuṣmantaṃ mahāmaudgalyāyanametadavocam — vyākṛtaṃ khalvāyuṣmanmaudgalyāyanāyuṣmatā mahākāśyapena yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ mahāmaudgalyāyanaṃ pṛcchāmaḥ (pūrvavat) kathaṃrūpeṇāyuṣmanmaudgalyāyana bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? evamukte bhadantāyuṣmānmahāmaudgalyāyano māmetadavocat — ihāyuṣmañśāriputra dvau bhikṣū abhidharmakathāṃ kathayataḥ, tāvanyonyaṃ praśnaṃ pṛcchataḥ, anyonyasya praśnaṃ pṛṣṭau visarjayataḥ, no ca saṃsīdataḥ, dhārmikī ca tayoḥ kathā pravartinī bhavati. evaṃrūpeṇa khalvāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti. sādhu sādhu śāriputra! yathā tanmaudgalyāyana eva samyagvyākurvāṇo vyākuryāt. maudgalyāyano hi śāriputra dharmakathika iti.

evamukta āyuṣmānmahāmaudgalyāyano bhagavantametadavocat — atha khalvahaṃ bhadantāyuṣmantaṃ śāriputrametadavocam — vyākṛtaṃ khalvāyuṣmañśāriputrāsmābhiḥ sarvaireva yathāsvaṃ pratibhānam. tatredānīṃ vayamāyuṣmantaṃ śāriputraṃ pṛcchāmaḥ — ramaṇīyamāyuṣmañśāriputra gośṛṅgaśālavanam, jyotsnā rātriḥ, sarvapraphullāḥ śālāḥ, divyā manye gandhāḥ saṃpravānti, kathaṃrūpeṇāyuṣmañśāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti? evamukte bhadantāyuṣmāñśāriputro māmetadavocat — ihāyuṣmanmaudgalyāyana bhikṣuścittaṃ vaśe vartayati, no ca bhikṣuścittasya vaśena vartate. sa yayā vihārasamāpattyākāṅkṣati pūrvāhṇasamaye vihartum, tayā vihārasamāpattyā pūrvāhṇasamaye viharati, yayā vihārasamāpattyākāṅkṣati madhyāhnasamaye vihartum, tayā vihārasamāpattyā madhyāhnasamaye viharati, yayā vihārasamāpattyākāṅkṣati sāyāhnasamaye vihartum, tayā vihārasamāpattyā sāyāhnasamaye viharati. tadyathāpyāyuṣmanmaudgalyāyana rājño vā rājamahāmātrasya vā nānāraktānāṃ dūṣyāṇāṃ dūṣyakaraṇḍakaḥ pūrṇaḥ syāt. sa yadyadeva dūṣyayugamākāṅkṣetpūrvāhṇasamaye prāvaritum, tattadeva dūṣyayugaṃ pūrvāhṇasamaye prāvṛṇuyāt, yadyadeva dūṣyayugamākāṅkṣenmadhyāhnasamaye prāvaritum, tattadeva dūṣyayugaṃ madhyāhnasamaye prāvṛṇuyāt, yadyadeva dūṣyayugamākāṅkṣetsāyāhnasamaye prāvaritum, tattadeva dūṣyayugaṃ sāyāhnasamaye prāvṛṇuyāt. evameva khalvāyuṣmanmaudgalyāyana bhikṣuścittaṃ vaśe vartayati, no ca bhikṣuścittasya vaśena vartate. sa yayā vihārasamāpattyākāṅkṣati pūrvāhṇasamaye vihartum, tayā vihārasamāpattyā pūrvāhṇasamaye viharati, yayā vihārasamāpattyākāṅkṣati madhyāhnasamaye vihartum, tayā vihārasamāpattyā madhyāhnasamaye viharati, yayā vihārasamāpattyākāṅkṣati sāyāhnasamaye vihartum, tayā vihārasamāpattyā sāyāhnasamaye viharati. evaṃrūpeṇa khalvāyuṣmanmaudgalyāyana bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti. sādhu sādhu maudgalyāyana! yathā tacchāriputra eva samyagvyākurvāṇo vyākuryāt. śāriputro hi maudgalyāyana cittaṃ vaśe vartayati, no ca śāriputraścittasya vaśena vartate. sa yayā vihārasamāpattyākāṅkṣati pūrvāhṇasamaye vihartum, tayā vihārasamāpattyā pūrvāhṇasamaye viharati, yayā vihārasamāpattyākāṅkṣati madhyāhnasamaye vihartum, tayā vihārasamāpattyā madhyāhnasamaye viharati, yayā vihārasamāpattyākāṅkṣati sāyāhnasamaye vihartum, tayā vihārasamāpattyā sāyāhnasamaye viharatīti.

evamukta āyuṣmāñśāriputro bhagavantametadavocat — kasya nu khalu bhadanta subhāṣitamiti? sarveṣāṃ vaḥ śāriputra subhāṣitaṃ paryāyeṇa. api ca mamāpi śṛṇuta yathārūpeṇa bhikṣuṇā gośṛṅgaśālavanaṃ śobheta. iha śāriputra bhikṣuḥ paścādbhaktaṃ piṇḍapātapratikrānto niṣīdati paryaṅkamābhujyarjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtimupasthāpya — na tāvadahamimaṃ paryaṅkaṃ bhetsyāmi yāvanme nānupādāyāsravebhyaścittaṃ vimokṣyata iti. evaṃrūpeṇa khalu śāriputra bhikṣuṇā gośṛṅgaśālavanaṃ śobheteti.

idamavocadbhagavān. āttamanasasta āyuṣmanto bhagavato bhāṣitamabhyanandiṣuḥ.

mahāgośṛṅgasūtraṃ niṣṭhitaṃ dvitīyam.

← mn31 
mn 
 mn33 →
Search
buddhism/mn/mn32.txt · Last modified: 2026/11/12 16:38